SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3943 THE SANSKRIT MANUSCRIPTS. Beginning : ये मुक्तावपि निस्पृहाः प्रतिपदप्रोन्मीलदानन्ददां यामास्थाय समस्तमस्तकमणिं कुर्वन्ति यं स्वे वशे । तान् भक्तानपि तां च भक्तिमपि तं भक्तप्रियं श्रीहरि वन्दे सन्ततमर्थयेऽनुदिवसं नित्यं शरण्यं भजे ॥ दशमे श्रीशुकवाक्यं परिक्षितं प्रति-- जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवानतानां वर्धयन् कामदेवम् ।। द्वितीये श्रीशुकवाक्यं परिक्षितं प्रतियत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदहणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ End: विष्णुपुरीवाक्यम् एवं श्रीश्रीरमण भवता यत्समुत्तेजितोऽहं चाश्चल्ये वा सकलविषये सारनिर्धारणे वा। आत्मप्रज्ञाविभवसदृशैस्तत्र यत्नैर्ममैतैः साकं भक्तैरगतिसुगते तुष्टिमेहि त्वमेव ॥ साधूनां स्वत एव सम्मतिरिह स्यादेव भक्त्यर्थिनामालोच्य ग्रथनश्रमं च विदुषामस्मिन्भवेदादरः । ये केचित्परकृत्युपश्रुतिपरास्तानर्थये मत्कृति भूयो वीक्ष्य वदन्त्ववद्यमिह चेत्सा वासना स्थास्यति ।। एष स्यामहमल्पबुद्धिविभवोऽप्येकोऽपि कोऽपि ध्रुवं मध्ये भक्तजनस्य मत्कृतिरियं न स्यादवज्ञास्पदम् । किं विद्याश्श(स्स)रघाः किमुज्ज्वलकुलाः किम्पौरुषाः किङ्गुणास्तत्कि सुन्दरमादरेण रसिकैनोपीयते तन्मधु । इत्येषा बहुयत्नतः कृतवता श्रीभक्तिरत्नावली तत्प्रीत्यैव तथैव सम्प्रकटिता तत्कान्तिमाला मया । For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy