________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4191
Beginning:
रामानुजमहायोगी शूद्रवैष्णवजन्मनाम् । सत्कर्मदर्पणं चक्रे कश्यपोक्तप्रकारतः ।।
माता वाथ पिता वाथ यो वा को वा मुमूर्षति । स्वमुपाध्यायमानीय पादौ प्रक्षाळयाचग्य, प्राणानायम्य, सुखोत्क्र. मणसिद्धये उत्क्रान्तिगोदानं सङ्कल्प्य, पात्रे प्रदाय, प्राणानायम्य, क च्छ्राणि सङ्कल्प्य, षट्चक्राणि चरेत् ।
मुमूर्षोर्दक्षिणे कर्णे . . . . . . . . । आयु- प्राणैस्तु संलीनः प्राणो मनसि वै भवेत् ।। मनः श्रोत्रे श्रोत्रमात्मन्यात्मा तु परमात्मान ।
सर्वदास्तु जगन्नाथपादपङ्कजमूलतः ।। इति कर्णमन्त्र जप्त्वा नारायणायेति सप्तधा(कृत्वः)सङ्कीर्त्य गते जीवे पुत्रः दक्षिणामुखः भूमौ प्रणम्योत्थाय पांसून् स्कन्धयोश्शिरस्यारोप्य नदीतटाकादौ चतुर्भिस्स्वजनैस्सह स्नात्वा धृतोर्ध्वपुण्ड्रः घटेषु जलमादाय गृहमागत्य नवपादमितां भूमिं गोमयेनोपलिप्य रङ्गवल्याद्यलकत्य श्रीवैष्णवान् विप्रानाहूय,
पिता मे गतवान् लोकं वैष्णवं नित्यमव्ययम् । कुरुध्वं मयि वात्सल्यात् श्रीचूर्णपरिपालनम् ॥ इति सम्प्रार्थ्य ।
गन्धाद्यैरभ्यर्च्य सकाण्डे कदलीपत्रे सोपस्कारं शिवं तण्डुलं समर्य समावृत्तमेकोद्दिष्टं सङ्कल्प्य एको विष्णुरिति मन्त्रेण ----
एकोद्दिष्टेन चानेन प्रेतरूपी जनार्दनः । प्रीयतां भगवान्विष्णुः नारायण अनामयः । 359-A
For Private and Personal Use Only