SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. वन्दे वन्दारुसन्दोहमन्दारधरणीरुहम् । अमन्दानन्दसन्धानदीक्षितं रघुनन्दनम् ॥ स्मृत्वा त्रय्यन्तसूरीन्द्रचरणाम्भोरुहद्वयम् । श्रीकृष्णतातस्तनुते वैष्णवत्वनिरूपणम् ॥ Acharya Shri Kailassagarsuri Gyanmandir 4187 वैष्णवशब्दो हि विष्णुशब्दात् तस्येदमित्यण्प्रत्ययेन निष्पन्नः । तदर्थश्च सम्बन्धी तत्र च सम्बन्धो न शेषत्वादिरूपः ; तस्य पतिं विश्वस्येत्यादिना सर्वसाधारण्यावगमात् । नापि तज्ज्ञानवत्त्वरूपः; सुषुप्त्यादावसम्भवेन तद्दशायामिदानीं न वैष्णवः, इदानीमत्र वैष्णवत्वं नास्तीत्यादिव्यवहारप्रसङ्गात् । भगवति देवतान्तरादपकृष्टत्वभ्रान्तिमतामपि स्वस्मिन् पित्रादिशेषत्वस्येव स्वप्रभृतिकतिपयमात्रवृत्तितया भगवच्छेषत्वस्यापि ज्ञानसम्भवेन तत्रातिप्रसङ्गाच्च । किन्तु पारम्यज्ञानप्रयोज्यधर्मवत्त्वरूपः । ज्ञाने च प्रकृत्यर्थस्य विशेष्यतासम्बन्धेनान्वयः । तथा च विष्णुविशेष्यकपारम्यप्रकारकज्ञानप्रयोज्यधर्मवत्त्वं वैष्णवत्वम् - इति सि द्धम् । इत्थव सुषुप्त्यादावपि पारम्यज्ञानप्रयोज्य संस्कारादिरूपधर्मसम्भवात् भगवति देवतान्तरादपकृष्टभ्रमवतां तदसम्भवाच्च नोक्तदोषावसरः । अत्र च सम्बन्धसामान्य एव शेषे षष्ठचादीनां शक्तिः ; चैंत्रस्य हस्त इतिवत् हस्तस्य चैत्र इत्यादिप्रयोगापत्तिस्तु अनादितात्पर्य - विरहात् वारणीयेत्याचक्षते । End : For Private and Personal Use Only प्रपन्नलक्षणे भरन्यासस्य फलविशेषानुक्तावपि एकान्तिपरमै कान्तिनोमक्षैकपरयोः प्रपन्नयोः पृथगुपादानात्प्रयोजनान्तरार्थं प्रयोजनान्तरसहित - मोक्षार्थच न्यस्तभर एव इह प्रपन्नशब्देन विवक्षितः । तस्यापि बन्धुत्यागसम्भवात् देहौपाधिकबान्धवानित्यस्य न विरोधः । अत्र सर्वत्र एवं
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy