________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4180
A DESCRIPTIVE CATALOGUE OF सेनेशाद्यैश्वरी गौणी कृत्वाचार्या यदैश्वरीम् । स्वोत्कृष्टावधिशू-येति व्याचख्यु(:) श्रीर्जयत्यसौ ।। यन्निवेदितकारीव जगजन्मादिकर्मणः ।। श्रीशः क्रीडति विघ्नौघं सेनेशो निघ्नतादसौ ।। पराशरमुनिश्रीमत्परांङ्कुशपुरस्सरान् । दिव्यदम्पतिसाम्राज्यदेशिकान् पर्युपास्महे ।। श्रीश्रीशौ मिळितावेव जगद्धेतू विमुक्तिदौ । प्रपत्तव्यौ चेति गद्यभाष्यसारादिषु स्थितम् ।। तत्र नानामतिक्षोभतिमिरौधैरुपल्लुते । आलोकसिद्धयै श्रीतत्त्वसिद्धाञ्जनमुदञ्चयते ।। यद्यप्याचार्यचरणैरेव सर्व निरूपितम् । निरस्य सर्वचोद्यानि बह्वीभिरुपपत्तिभिः ॥ तथापि तत्प्रबन्धानामपि तैस्तैः कृतास्तु याः । अन्यार्थकल्पनास्तासां वारणार्थमियं कृतिः ।। केचिच्छ्यिोऽपि ब्रह्मत्वमूचुराचार्यसम्मतम् । जगुरन्येऽनभिमतां जगत्कारणतामपि ॥ सृष्ट्यादावनुमन्तृत्वप्रेरकत्वादिमात्रतः । जगज्जनकताचार्यैः कचिदुक्तेति चोचिरे । चतुश्श्लोकाधिकारान्तप्रोक्तपक्षेषु पञ्चसु । अनिर्धारणमेवैके कल्प्य(ल्प)न्त्याचार्यसम्मतम् ।। श्रीरणुर्वा विभुर्वास्तु जीवतेश्वरतापि वा । अस्याः पुरुषकारत्वमात्रेण ज्ञेयतेति च ॥
For Private and Personal Use Only