________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4164
À DESCRIPTIVE CATALOGUE Op वक्तुमर्हसि धर्मज्ञ जगतां हितकाम्यया ।
महर्षे त्वं समर्थोऽसि तत्त्वसारविवेचने ।। वसिष्ठः
साधु पृष्टं त्वया तात जाबाले तपतां वर । तत्त्वसारमिदं वक्ष्ये कलौ सद्गतिसाधनम् ॥ मन्त्राणां परमो मन्त्रः संसारव्याधिभेषजम् । श्रीमदष्टाक्षरो मन्त्रस्सर्वसाधनमुच्यते ।। ओं नमो नारायणायेत्येष ह्यष्टाक्षरो मनुः । ओमित्येकाक्षरं प्रोक्तं नम इत्यक्षरद्वयम् ॥ नारायणायेति पञ्चाक्षराणि कथितानि वै । एतन्नारायणस्याष्टाक्षरं पदमितीयते ॥ यो वेद सार्थकं ह्येतत्सोऽमृतत्वमुपाश्नुते । कदाचित्तत्पदाम्भोजान्न प्रच्यवति कर्हिचित् ।।
Colophon:
इति शुकपाश्चरात्रे विष्णुसंहितायां वसिष्ठजाबालिसंवादे कलिसद्भति. विवरणं नाम एकादशोऽध्यायः ।। End:
पारम्पर्ये तु विच्छिन्ने मूलं नष्टं न संशयः । प्रयत्नेनापि संरक्ष्यः पारम्पर्यक्रमो बुधैः ।। एवमाचार्यकलशाभिषेकक्रम ईरितः ।
किमन्यच्छ्रोतुकामोऽसि वदख तपतां वर ॥ Colophon:
इति शुकपाश्चरात्रे विष्णुसंहितायां वसिष्ठजाबालिसंवादे आचार्यकलशाभिषेको नाम द्वादशोऽध्यायः ।।
For Private and Personal Use Only