________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4160
A DESCRIPTIVE CATALOGUE OF
Beginning :
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यों मे सन्निधत्तां सदा हृदि ।। श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तविजयध्वजम् । विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ।। श्रीमद्वेकटनाथार्यनन्दनो(नः)प्रणमाम्यहम् । शेषशायिपदाम्भोजशेषत्वज्ञाननिर्मलान् ॥ आविष्कृत(:) श्रुतिगणैरविरोधवृत्त्या काले कदापि रचयन् रजनी दिवापि । भुक्तं विहङ्गमभुजङ्गमभूपतिभ्यां पादाम्बुजं दिशतु पाण्डवसारथिर्मे ।। ऊरीकृत्य तु लक्ष्मणार्यपृतनासन्तानदन्तावळान् पृथ्वीनिजेरतल्लजानुपनिषत्सिद्धान्तबद्धाशयान् । अन्यानप्यरविन्दलोचनदयाविन्यासधन्या वयं
तूलायापि तृणाय वा न च तुषच्छेदाय मन्यामहे ।। अहं खलु लक्ष्मणार्यराद्धान्तनिष्णातविष्णुभक्तजननासरिवीरः शुनासीरपुरोहितसदृशमपि परपक्षवादिनमन्यथयन्ननन्यथासिद्धगुरुभक्तिप्रवाहपरिणतपरभक्त्युपलभ्यमानसभ्यानुविधेयवचनो वरदाचार्यनामा पङ्कजनाभपादारविन्दमकरन्दमधुकरायमाणमानसैर्धर्मसम्प्रदायवर्तनीव्यवस्थापनसन्तो - षितसर्वाचार्य(:)श्रीमद्वेदान्ताचार्यैरस्मत्तातपादैरगस्त्यभाषया प्रणीतमध्यात्मविद्भिरवधार्य रहस्यत्रयसारार्थविरोधपरिहारमशेषदेशवासिनामपि परशेषत्वज्ञ()नरसिकानां सुग्रहणसिद्धये सोपबृंहणनिपुणनिरूपितनिगमसंवादसंस्कृतया संस्कृतभाषया सम्यगनुकथयामि । तथा हि-मुमुक्षूणाम
For Private and Personal Use Only