________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
4151
सिंहासनारुणाधारमीदृशं सोमभूषितम् । अकलङ्के-दुसूर्यामि लक्ष्मीरूपमुपास्महे ॥ वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्राविशारदम् । सर्वसिद्धान्ततत्त्वज्ञं धर्माणां मागता(र्गसंगमम् ॥ जितेन्द्रियं जिताधा(हा)रं रागद्वेषावशीकृतम् । चतुर्दशाङ्गयोगस्थं प्रसङ्ख्यानपरायणम् ।।
प्रातस्सन्ध्यामुपासीनमृषि हुतहुताशनम् । पतिव्रतानां परमा धर्मपत्नी यशस्विनी ॥
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता । पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः ।
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत् ॥ अनसूया
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते । त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः ॥ ज्ञानानि च विचित्राणि फलरूपादिभेदतः । भवद्भयो भगवद्धर्मो विशिष्टो विधृतो मया ॥
रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम् । तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम् । यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा । यत्प्रमाणा यदाधारा यदुपाया च यत्फलम् ।। तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ।
Colophon:
इति श्रीपाश्चरात्रे सारे लक्ष्मीतन्त्रे प्रथमोऽध्यायः ॥
For Private and Personal Use Only