________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4139
Beginning: . श्रीमान् वेङ्कटनाथार्यः . . सन्निधत्तां सदा हृदि ।
पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यकृत् । आचार्यवत्तया मुक्तौ तस्मादाचार्यवान् भवेत् ॥ प्रपदनमये विद्याभेदे प्रतिष्ठितचेतसः प्रतिपदमिह प्रज्ञादायं दिशन्तु दयाधनाः । शठरिपुशुकव्यासप्राचेतसादिनिबन्धनश्रमपरिणतश्रद्धाशुद्धाशया मम देशिकाः ॥ एते मह्यमपोढमन्मथशरोन्माथाय नाथादयः त्रय्यन्तप्रतिनन्दने(नी)यविविधोदन्ताः स्वदन्तामिह । श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगाव्यापकाः स्पर्धापल्लवविप्रलम्भपदवीवैदेशिका देशिकाः ।।
कर्माविद्या च चक्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे तत्तत्काले विपत्तिर्भवति हि विविधा सर्वसिद्धान्तसिद्धा । तल्लब्धस्वावकाशप्रथमगुरुकृपागृह्यमाणः कदाचित्
मुक्तैश्वर्यान्तसम्पन्निधिरपि भविता कश्चिदित्थं विपश्चित् ॥ श्रुतिपथविपरीतं श्वेलकत्वश्रुतौ च प्रकृतिपुरुषभोगप्रापकांशोऽनवद्यः । तदिह विबुधगुप्तं यत्तु भीता विचिन्वन्त्युपनिषदमृताब्धेरुत्तमं सारमार्याः । End: आस्तिक्यवान्निशितबुद्धिरनभ्यसूयः सत्सम्प्रदायपरिशुद्धमनास्सदर्थे । सङ्केतभीतिरहितस्स तृणेष्वसक्तः सद्वर्तनीमनु विधास्यति शाश्वती नः ।।
रहस्यत्रयसारोऽयं वेङ्कटेशविपश्चिता । शरण्यदः पतिविदां सम्मतस्समगृह्यत ॥
For Private and Personal Use Only