________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4135
प्रपद्ये कमलां देवीं कमलेक्षणवल्लभाम् ।। अस्मदाचार्यवर्येभ्यः श्रुतस्यार्थस्य सादरम् ।
सङ्ग्रहः क्रियतेऽस्माभिर्मननायैव केवलम् ॥ मुमुक्षोश्चेतनस्य रहस्यत्रयार्थो ज्ञातव्य इत्याचार्याः प्रत्यवदन् ।
रहस्यत्रयशब्देन श्रीमदष्टाक्षरो मनुः ।
द्वयार्थ मन्त्ररत्नश्च श्लोकवर्यश्च कथ्यते ।। तत्र श्रीमदष्टाक्षरो मनुः श्रीमद्बदरिकाश्रमे परमकारुणिकेन गवता नारायणेन स्वांशभूताय नराय सर्वजनहितार्थमुपदिष्ट इति पुरागेषु स्मरणात् विष्णुगायत्र्यां नारायणाय विद्मह इति प्रथमोपात्तत्वात् । End:
एवं निरतिशयमत्प्राप्तिप्रतिबन्धकैविरहितं कुर्या शुचं मा कृथा इति अस्मिन् प्रवन्धे नास्माभिरपूर्वार्थ उन्नीतः ; आचार्यप्रबन्धेषु यदुपपादितं, यच्चास्मदाचार्या उपदिदिशुः ; एतत्सर्व सुग्रहाय सङ्गृह्यास्माभिरुकमिति विदाङ्कुर्वन्तु सन्तः ॥
नमश्शठारिमुनये निखिलागमवेदिने । नमामि श्रीनिवासं तं श्रीवेङ्कटनिवासिनम् ॥ यत्कारुण्यैकदेशेन तृणमब्जासनायते । इत्थमाचार्यवर्येण सम्प्रदायप्रदर्शितान् ।
अर्थान् प्रकाशयामास श्रीमन्नारायणो मुनिः ।। Colophon:
इति परमहंसपरिव्राजकाचार्येण भगवद्भाष्यकारन्यस्तात्मात्मीयभरेण द्राविडवेदान्ताचार्यश्रीपादपद्मरसिकश्रीशठारियोगीन्द्रश्रीपादाम्बुजभृङ्गेण श्रीमन्नारायणमुनिना सङ्गृहीते रहस्यदीपापरनामधेये रहस्यत्रयजीवातौ तृतीयः परिच्छेदः ॥ .
For Private and Personal Use Only