________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8985
पुष्टिप्रवाहमर्यादामार्गा गीताश्रीभागवतादावुक्ता एव ; तथापीयदवधि विविच्य केनापि न प्रकटीकता इति श्रीमदाचार्याः प्रमाणपूर्वकं विविच्य प्रकटीकर्तु प्रतिजानते ।
पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् ।।
जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ पुष्टिप्रवाहमर्यादा इति । मार्गा इति शेषः । . . . . . • . . . एवमुद्देशेन मार्गत्रयभेदमुक्ता लक्षणैराहुः भक्तिमार्गस्येति । . . . . . .
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथा ।। इति नारदपाश्चरात्रकथनात् यद्यपि स्नेहो भक्तिरित्येतावदेव मुख्यभक्तिलक्षणम् ; तथापि माहात्म्यज्ञानपूर्वास्त्वतिविशेषकथनस्यायमाशयः ।
End:
यत्र योगभ्रष्टस्यापि पूर्वजन्मयोगधर्माचरणसंस्कारानिवृत्तिस्तत्र भगवदङ्गीकृतस्य पुष्टिमार्गीयस्य पूर्वधर्माचरितभगवद्धर्मस्य सर्वतोऽधिकप्राबल्यादसुरसड़ेन तत्कुलजन्मनापि पूर्वजन्मसंस्कारनिवृत्त्यभावात् यावज्जीवं तत्संस्कारवत्त्वेनान्तकालेऽपि तत्संस्कारस्य विद्यमानत्वादन्ते या मतिस्सा गतिरिति शास्त्रात् यं यं वापि स्मरन्भावमिति वाक्याच्च तस्य भगवत्प्राप्तिरेव ; न त्वासुरभावजनितः कोऽप्यन्तराय इति सर्वमनवद्यम् । यद्यप्यत्र ग्रन्थोपसंहारदर्शनाभावादग्रेऽपि ग्रन्थोऽस्तीति ज्ञायते, तथापि अग्रिमग्रन्थस्याप्रसिद्धत्वाद्यावत्प्रसिद्ध एव व्याख्यात इति नानुपपत्तिः काचित् ।
श्रीमत्कृष्णस्य वागर्थो दुर्बोधस्सर्वथा स्वतः । तत्कृपातस्तदीयस्य बुद्धिगम्यो न चान्यथा ॥
343-A
For Private and Personal Use Only