________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4108
A DESCRIPTIVE CATALOGUE OF
कलिबलवशाद्धर्मे लुप्ते निवृत्तिफलप्रदे भगवति हरौ भक्तैस्सद्भिः सदा समनुष्ठिते । तदितरपरामिश्रं धर्म प्रवृत्तिफलप्रदं
रजसि तमसि प्रादुर्भूते भजन्ति महीसुराः ॥ . प्रसादाद्देशिकेन्द्राणामहं रामानुजो यतिः ।।
निर्मूलयामि सिद्धान्तं दुर्दान्तश्च दुरुक्तिभिः ।। परदेवतापारमार्थ्यनिर्णयः प्रथमं वक्ष्यते । भारते मोक्षधर्मे युधिष्ठिरः
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः । य इच्छेत् श्रेय आस्थातुं देवतां कां यजेत सः ।। विधिना केन जुहुयात् दैवं पित्र्यमथापि वा।
देवतानाञ्च को देवः पितृणाञ्च पिता च कः ।। भीष्मः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादमृषेर्नारायणस्य च ॥.
नारदः--
कन्त्वद्य यजसे देव पितरं तं न विद्महे । नारायण:----
इन्द्रियैरिन्द्रियार्थे श्च सर्वभूतविवर्जितः । स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ॥ त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः । तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विपदां वर ॥
For Private and Personal Use Only