________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1097
Beginning: ब्रह्मोवाच
सर्वलोकेश्वरो विष्णुस्सृष्ट्याद्यष्टकदीश्वरः ।
यया ससर्ज निखिलं तन्मे ब्रूहि जगद्गुरो ॥ श्रीहंस उवाच---
नारायणोऽनन्तशक्तिः पूर्णानन्दोऽक्षरस्स्वराट् । ज्ञानानन्दात्मकानन्ततनुरासीदिति *श्रुतिः ।। तस्य खतन्त्रस्य हरेस्साकल्येन महात्मनः । खरूपं नैव जानन्ति रमाब्रह्मादयोऽपि तु ॥ तथापि तत्प्रवक्ष्यामि यथा जानासि तत्त्वतः । पूर्णकामस्य तस्यास्य सृष्ट्यादेर्न प्रयोजनम् ।।
End:
तदा रमां विना कश्चिद किञ्चिन्ना)न्यदासीन्महीतले । शून्यनाम्नश्शिशोगर्भे सर्वे जीवास्तदावसन् । तदूर्ध्वकुक्षिगो(गा मुक्ताः प्रभवन्ति महालये । . . मुक्तियोग्या मध्यकुक्षौ नित्यबद्धास्तु नाभितः ।। अधोऽसुराः कटितटे प्राप्तदु:खास्तदूर्ध्वगाः । वसन्ति कृप्तानन्दास्ते मुक्ता भुञ्जन्ति नेतरान् ॥ सर्वलोकात्मकस्तस्य शिखाग्रे सत्यनामके । अद्य ब्रह्मांशतो जातो विष्णोर्नैव चतुर्मुखः ।। सृष्टस्स्वयं द्रष्टुमिच्छन् चतुर्दिक्षु विधिर्हरिम् । मुखानि लेभे चत्वारि नापश्यदिक्षु वै स्वयम् ॥ ततस्तन्नाळमध्यान्तश्छिद्रादन्तर्गतो हरिम् । पश्यामि(मीति)तथा चक्रे न तत्राविन्ददीश्वरम् ।।
* स्मृतिः इति पाठान्तरम्.
For Private and Personal Use Only