________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1094 A DESORIPTIVE CATALOGUE OF
राजर्षिभिस्समायुक्ते मन्त्रसिद्धैर्महात्मभिः । आवृते पुण्यशिखरे वासुदेवास्पदे शुभे ।। सनको नाम योगर्षिः ब्रह्मपुत्रो महातपाः । भगवज्ज्ञानसिद्ध्यर्थ तपस्तेपे सुदुष्करम् ।। शतवर्ष ध्यायमानः परमात्मानमात्मनि । न लेभेऽभिमतं सोऽत्र ततो घोरतरं तपः । चकार सुचिरं कालं न लेभेऽभिमतं मुनिः ।। शोकेन महताविष्टो बभूब सनकस्तदा। ततश्शोकार्णवे मनं जितक्रोधं जितेन्द्रियम् ।। सनकं मुनिशार्दूलं भगवान् भक्तवत्सलः । सुप्रसन्नो जगद्धाता जगाद जगतो हितम् ।।
वासुदेवः परं ज्योतिरदृश्यः पुरुषोत्तमः । श्रीभगवान्---
त्वया यो वरेणेह सुतप्तं तप उत्तमम् । प्राप्स्यसे नाचराद्ब्रह्मन् महतस्तपसः फलम् ।। समाश्वसिहि भद्रं ते मा विषीद महामते । कृतकृत्यो जगत्यस्मिन् शाण्डिल्यः श्रूयते महान् ।। तमाश्रयस्व भद्रं ते भगवद्धर्मसिद्धये ।
Colophon:
इति श्रीपाश्चरात्रे ज्ञानकाण्डे शास्त्रावतारो नाम प्रथमोऽध्यायः ॥ End:
. . . . . . . . यन्त्रवरस्य मध्ये । तस्यापराङ्गेऽत्र हरिं विधाय कराम्बुजैश्चक्रधरैश्चतुर्भिः ।।
For Private and Personal Use Only