________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4078
A DESCRIPTIVE CATALOGUE OF
गोपस्त्रीभिरुदारमन्मथधनुष्टङ्कार इत्यादरात् रासे वल्लवतल्लजस्य मुरलीनादो विनोदाय नः ।। फक्कत्कौरवपत्तनप्रभृतयः प्रास्तप्रलम्बादयः तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः । क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणैराकौमारकमखदन्त जगते कृष्णस्य ताः केलयः ।। अस्मद्गुरून् परम गुरून् श्रुत्यन्ताचार्यलक्ष्मणमुनीन्द्रौ । श्रीयामुनार्यनाथौ शठरिपुसेनेशजलधिजाश्रीशान् ।। आनम्य वङ्गिवंशामृतजलधेर्दिव्यकौस्तुभो विबुधः । . रामानुजार्यनामा श्रुत्यन्ताचार्यचरणदासोऽयम् ॥ तदनुग्रहस्य भूम्ना विद्वद्भिालनीयामिदम् । श्रीपाश्चरात्ररक्षाहृदयं तनुते प्रमोदेन ।। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ।। अत्र तावत् पराशरपाराशर्यादिवत् स्खयोगमहिमसाक्षात्कृतसमस्तवेदार्थतत्त्वः परमकारुणिको भगवान् भाष्यकारः तथाविधानमेव पूर्वाचार्याणां सम्प्रदायं प्रमाणपदवीश्चानुसृत्य संसृत्यवमग्नस्खशिष्यजनपरम्परोद्दिधीर्षया प्रापकत्वप्राप्यत्वोपयुक्तपुरुषकारसम्बन्धिगुणरूपोपकारादिविशिष्टशरण्यप्रतिपत्तिप्रकाशकमन्त्ररत्नविवरणमन्त्रभूतैर्गद्यैः स्वानुष्ठानमुखेनान्तिम युगपरमैकान्तिनः प्रपत्तिरेवापवर्गसाधनमिति प्रकाश्य ।
End:
अतो वर्णाश्रमद्रव्यकालविशेषानादरेण यथोपनीतैः द्रव्यादिभिः श्रद्धावतामेवाधिकारोक्तरन्तिमयुगेऽपि ईगधिकारिणस्सुलभा एवेति नैतप्रबन्धनिर्माणायासवयमिति सर्वमनवद्यम् ।।
For Private and Personal Use Only