________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
चातुर्व्यूहं परं ब्रह्म षाङ्गुण्यपरिकर्मितम् । पञ्चरात्रस्य कृत्स्नस्य प्रसूतिं पर्युपास्महे ।
अनन्यदेवतास्थायिन्यायते महिते वयम् । पचरात्रमहाम्भोधिपारदृश्वनि सज्जने ॥
Acharya Shri Kailassagarsuri Gyanmandir
आरोहन्त्वनवद्यतर्कपदवीसीमादृशां मादृशां पक्षे कार्तयुगे निवेशि पदान् पक्षे पतयः परान् । सर्वानुश्रवसारदर्शि सशिर कम्पद्विजिह्वाशन क्रीडा कुण्डलमौलिरत्न घृणिभिस्सारात्रिकास्सूक्तयः ॥
अत्र तावत्प्रत्यक्षितसमस्तवेदार्थतत्त्वस्थितिभिः पाराशर्यप्रभृतिभिः महाभारतादिषु भगवच्छास्त्रस्य सार्वभौमं प्रामाण्यं प्रत्यपादि । शारीरके च कपिलकणभक्षभिक्षुक्षपणकपशुपतिसमयप्रतिक्षेपसम (न) न्तरतन्त्रान्तरसहपाठादिसम्भवमन्दमतिव्यामोहशमनाय उत्पत्त्यसम्भवात् न च कर्तुः करणमिति सूत्राभ्यां पूर्वपक्षमुपक्षिप्य विज्ञानादिभावे वा तदप्रतिषेधः, विप्रतिषेधाच्चेति सूत्रद्वयेन जीवोत्पत्त्याद्यनुपपत्तितत्प्रतिषेधप्रतिपादनद्वारेण सिद्धान्तरसमर्थितः ।
4075
End :
अतो यथाधिकारं यथाशक्यमत्र श्रद्धधानैदयार्द्रहृदय देशिकोपदेशपूर्वकमनुप्रविश्य देशकालदशाद्यानुगुण्येनाच्छिद्रं यथाक्रमं समाहृत्य वालुतिष्ठद्भिरनन्यप्रयोजनैः परमैकान्तिभिरनवधिकपरमपुरुषचरणपरिचर्यारूपमपवर्गेश्वर्य यथारोग्यं यथायोग्यं चात्रैव भोक्तव्यमिति सिद्धम् ||
सव्यं पादं प्रसार्य शृ ( श्रि) दुरितहरं दक्षिणं कुयित्वा जानुन्याधाय सव्येतरमितरभुजं नागभोगे निधाय ।
For Private and Personal Use Only
•