________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3930
A DESORIPTIVE CATALOGUK OY
Beginning:
भावितं विविधैर्भावैः प्रेष्ठभावितया मुहुः । भावये राधया कृष्णं भवितुं भावभावुकः ॥ यद्वाक्पीयूषभावानां भावनादभवो भवः ।
भावये तान्निजाचार्यपदो भावोपलब्धये ॥ श्रीकृष्णे केवलभावेनापि केवलेन हि भावनेति वाक्यात्तत्राप्ते नैष्कर्म्यमपीत्यादिभिः भावहीनस्य ज्ञानादेरपि असमर्थत्वादस्नेहभोजनमिव भावहीनं सर्वमिति श्रीवल्लभाचार्थचरणाः स्वीयानां भावपोषार्थ कृपया भावनिरूपणं प्रतिजानते-नमस्कृत्येति । नमसो गतिसंज्ञकत्वात् कुगतिप्रादय इति समासादत्र ल्यप् । . . . . . . . . . भावानां स्वत एकस्वरूपत्वेऽपि गुणभेदैरेव भेदात् भावभेदकान् गुणभेदानेवाहुः । गुणभेदास्तु तावन्त इति । जले यावन्तो भेदा वेदेन संमता ज्ञाता वा तावन्तो गुणभेदास्तथेत्यर्थः । वेदोक्तजलभेददृष्टान्तकरणात् भावानां शुद्धत्वालौकिकत्वतापहारकत्वशोधकत्वाप्यायकत्वानि ध्वनितानि । अत्र कूप्याभ्यस्स्वाहेत्यारभ्य सर्वाभ्यस्स्वाहेत्यन्ता तैत्तिरीया श्रुतिरनुसन्धेया। End : . ___ एतादृशा विष्णोर्भगवतो गुणास्तेषां भावानां भगवदीयत्वात् तद्रूप. त्वाद्वा रूपतस्स्वरूपत ईदृशं यत्स्वरूपमिति फलत ईदृशमेतत्फलामति निरूपिता विवेचिता इत्यर्थः ॥
जलानामिव भावानां भेदा यत्र निरूपिताः । जलभेद इति ख्यातो ग्रन्थोऽयं भावबोधकः ।। श्रीविट्ठलेशाझिसरोजपीठं कल्याणरायेण मुदा प्रणम्य । ताताङ्गिपद्मे च गुरून् पितृव्यान् टीका कृतेयं जलभेदनाम्नः॥
For Private and Personal Use Only