________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
4053
Beginning :
न च(न)म्लेच्छितवै नापभाषितवै । म्लेच्छो ह वा एषः । यदपशब्द इत्यपशब्दरूपद्रमिडभाषोच्चारणस्य निषिद्धत्वात् कथं तदध्ययनस्यादर्तव्यता ? (न म्लेच्छि)तवै न मेच्छितव्यमित्यर्थः । तथा(च) नानृतं वदेदिति अनृतवदनस्य निषिद्धत्वात् अयथावस्थितार्थकथनलक्षणानृतवदनस्येव अयथावस्थितशब्दकथनलक्षण(पशब्द)वदनस्यापि निषिद्धत्वात् व्याकरणाधिकरणे मीमांसकैस्तथा प्रतिपादितत्याच्च कथं भाषाप्रबन्धाध्ययनस्यादर्तव्यतेति वाच्यम् ; न म्लेच्छितवा इत्यस्य क्रतुप्रक. रणपठितत्वेन क्रत्वर्थतया क्रतोर्बहिरपशब्दप्रयोगे दोषाभावात् । End:
तस्मिन्नधिकरणे शाक्याद्यागमानां वेदवैदिकनिन्दापराणां भेदानुमानद्वारा धर्मप्रमित्युपयोगाभावसमर्थनेऽपि मन्वादिस्मृतिवत् वैदिकार्थनिबन्धनबद्धश्रद्धस्यास्य प्रबन्धस्य श्रुत्यनुमानद्वारा धर्मप्रमित्युपयोगित्वसम्भवेन इतिहासपुराणस्थानाभिषिक्त कत्वे दोषाभावादित्यलमि(म)तिचर्चया ॥
No. 5261. द्रमिडोपनिषत्तात्पर्यम्.
DRAMIDOPANIŞATTATPARYAM. Substance, palm-leaf. Size, 9 x 13 inches. Pages, 35. Lines, 6
on a page. Character, Telngu. Condition, slightly injured. Appearance, old. Complete.
Gives in Sanskrit stanzas the significance of the various parts of Tiruväymoli : by Abhirāmavara.
Beginning :
यश्चकार सकलार्थसम्पदां व्यञ्जनीं द्रविडवेदसङ्गतिम् । तं द्वितीयशरणापमन्वहं नौमि सुन्दरवराहयं मुनिम् ॥
For Private and Personal Use Only