________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4045
THE SANSKRIT MANUSCRIPTS. 4045 मन्त्रद्वयोत्तमश्लोकविषयोऽर्थविवेचकः । गुरुनेहदशारूढस्तत्त्वदीपः प्रकाश्यते ।। तत्रार्थतत्त्वमाचार्याद्यथामति यथाश्रुतम् ।
वर्ण्यते मननार्थाय मतो यर्थः स्थितो भवेत् ॥ अयं जीवात्मा खयं नित्यनिर्मलज्ञानानन्दैकखरूपखाभाविकज्ञातृत्वकर्तृत्वभोक्तृत्वस्वरूपधर्मो भगवदायत्तस्वरूपस्थितिप्रवृत्तिकतया तच्छरीरत्वेन तदनन्याहशेषत्वादिरूपस्वासाधारणाकारस्सर्वप्रकारतत्पारतन्त्र्ययुक्ततद्दास्यैकरसस्तदनुभवजनितानवधिकातिशयनित्यानन्दयोगयोग्योऽपि गुणत्रयात्मिकया . . . . . . . . . . . . निरन्तरविततविविधनिरवधिकदुः खसागरपरिप्लुतो वर्तते ।
End:
तस्मान्मन्मना भूत्वेत्यादिश्लोकद्वयेन चरमश्लोकेनैकेन वा सर्वोपायविलक्षणभगवदेकोपायत्वव्यवसाय एव भगवता स्वेनैव सादरं विधीयत इत्यस्यैव शरण्याभिमततरत्वसम्प्रतिपत्तेरयमेवोपायविशेषस्सर्वाधिकारिणां स्वाभिलषितपुरुषार्थसिद्ध्यर्थ स्वोज्जीवनार्थ च समाश्रयणीय मि(इ)ति नि(र)वद्यम् ॥
सौम्यजामातृमुनिना गुरुस्नेहदशान्वयात् । चरमश्लोकसारार्थतत्त्वदीपः प्रदर्शितः ।। आरण्यकगुहान्तस्थमदृश्यं गुरुगोपनात् । सम्पश्यति रहस्याथै तत्त्वदीपान्वितः पुमान् ॥
No. 5251. तत्त्वदीपः.
TATTVADIPAH. Pagos, 176. Lines, 8 on a page.
Begins on fol. la of the MS. described under No. 4985. Complete. Same work as the above.
350
For Private and Personal Use Only