________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4024
A DESCRIPTIVE CAYALOGUE OF
आत्रेयवरदाचार्यमस्मदाचार्यमाश्रये । सर्वज्ञस्सम्प्रदायं यो बालिशं मामशिक्षयत् ॥ आत्रेयश्रीनिवासार्यसुतोऽहं वरदः कविः । रहस्यत्रयसारस्य व्याकुर्वे कारिकाः क्रमात् ॥ जगति निगमचूडाचार्यवाचां रहस्य निधिमिव जननान्धो निर्भयस्साहसिक्यात् । प्रकटयितुमसाध्ये सम्प्ररत्तोऽस्मि यहा
प्रतिभुव इव तन्मे देशिका दर्शयन्ति ॥ तत्र भगवान् वेदान्ताचार्यो निखिलजगदुज्जीवनाय श्रीरहस्यत्रयसाराख्यं मोक्षशास्त्रं प्रणिनाय । तत्र चासौ प्रथममावश्यकतया गुरुपरम्परामा भगवत्तो ज्ञेयां प्रकाश्य अनादिकालं संसरतो जीवस्य कदाचिदीश्वरसौहार्दयादृच्छिकसुकृतादिप्रणाळ्या देशिककरुणाकटाक्षविषयत्वेन भगवत्प्राप्तुचपायान्वय इत्युपोद्धातमारचय्य, गुरूपसदनादनन्तरमपि बहुवेदितव्यप्रमाणेषु सत्स्वपि सारतमांशबोधाय प्रवृत्तियुक्तेति प्रतिपाद्य, श्रीमद्रामानुजदर्शनेऽस्मिन्प्रतितन्त्रसिद्धान्तसिद्धान् कांश्चिदसाधारणानन् समर्थ्य, तदनु मुमुक्षूणामवश्यं ज्ञेयमर्थपञ्चकमभिधाय, चिदचिदीश्वरस्वरूपाणि विशदीकर्तुं तत्त्वत्रयाधिकार प्राक्रमत ।
शङ्काद्वयमपि धर्मभूतज्ञानप्रतिबन्या परिहरन् कारिकारूपण निबध्य दर्शयति-धियः खयंप्रकाशत्वमिति ।
अस्यार्थः
धियो धर्मभूतज्ञानस्य स्वयंप्रकाशत्वं बद्धे संसारिजीवे । कदाचित् विषयाप्रकाशनदशायाम् ।
For Private and Personal Use Only