SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3662 A DESORIPTIVE CATALOGUE or किं करोषि वृथा जरूपान् भेदमहं खण्डयामीति । तदिदं भेदखण्डनं स्वशिरःखण्डनं न जानीषे ; कुतस्तदिति चेत् ? भेदमहं खण्डयामीति खण्डनीयस्य खण्डयितृशिरसश्च भेदाभावेन भेदखण्डनस्य स्वशिरः खण्डनत्वापातात् । किं च भोः किं घटपटयोर्भेदं खण्डयसि ? किंस्विदविद्याब्रह्मणोः ? किं वा दूष्यदूषणयोः? उत ब्रह्महत्याश्वमेधयोः ? आहोस्वित् वसिष्ठचण्डालादीनाम् ? आद्यः कल्पो न कल्पते-घटपटयोरभेदे घटेन शीतं निवार्येत पटेन पानीयमानीयेत । न द्वितीयः--भवन्मते त्वविद्याया अनिर्वचनीयत्वात्ततो ब्रह्मणो भेदाभावे ब्रह्माप्यनिर्वचनीयं स्यात् । End: जीवेश्वरभेदस्य जीवानां परस्परभेदस्य च प्रत्यक्षाद्यविषयत्वात् । यदि कस्य चिद्भेदस्य प्रत्यक्षसिद्धत्वमात्रेण प्रत्यक्षाद्यविषयस्यापि भेदस्य शास्त्राविषयत्वमुच्येत, तर्हि सोऽयं देवदत्त इत्यादी कस्यचिदभेदस्यापि प्रत्यक्षसिद्धत्वात् सर्वोऽप्यभेदः शास्त्राविषयस्यादिति तुल्यमेतत् । तदुक्तं वरदाचार्यैः-- न द्वैतं प्रतिपादयन्त्युपनिषद्वाचः प्रसिद्धं हि तत् किन्त्वद्वैतमनन्यगोचरतया तद्वेद्यमास्थीयताम् । अप्राप्ते खलु शास्त्रमर्थवदिति व्यर्थः प्रयासो यतः प्रख्यातादितरस्तु शास्त्रविषयो भेदस्त्वदद्वैतवत् ॥ इति सर्वमवदातम् ॥ Colophon: इत्यभेदखण्डनं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy