SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कविकथककोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदन हेपाहलहलः || इदम्प्रथमसम्भवत्कुमतिजालकूलङ्कषा मृषामतविषानलज्वलितजीवजीवातवः । तत्र तावच्छास्त्रारम्भे क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तयचिरन्तनसरस्वतीचिकुरबन्धसैरन्धिकाः || प्राचीमुपेत्य पदवीं यतिराजजुष्टां तत्सन्निकृष्टमपि वा मतमाश्रयन्तः । प्राज्ञा यथोदितमिदं शुक्रवत्पठन्तः प्रच्छन्नबौद्धविजये परितो यतध्वम् || वादाहवेषु निर्भेत्तुं वेदमार्गविदूषकान् । प्रयुज्यतां शरश्रेणी निशिता शतदूषणी || विचारविषयत्वेन सूत्रकृद्यदसूत्रयत् । परोक्ता ब्रह्मशब्दस्य वृत्तिरत्र निरस्यते || Acharya Shri Kailassagarsuri Gyanmandir 3817 निर्विशेषब्रह्मवादे ब्रह्मशब्दस्य क्वचिन्मुख्यत्वमस्ति न वा ? न चेदसाधुत्वापत्तिः । साधुत्वस्य मिथ्यात्वमभ्युपगच्छतामसाधुत्वमिष्टमिति चेद्धन्त सर्वशब्दासाधुत्वम्; साध्वसाधुविवेकाभावे च कृतं वेदान्तैस्साङ्गोपाङ्गैर्वेदः । मुख्यार्थशून्यस्य तन्मूलवृत्त्यन्तरे लिङ्गत्वे चासम्भवति कथं क्वचिद्बोधकत्वमपि ? न च साङ्केतिकोऽयमपभ्रंशो वा; येन वाचकत्वाभिमानाद्बोधकत्वं स्यात् । For Private and Personal Use Only End : न चासौ विभ्रम इति शङ्कितुमपि शक्यम्; सकलवेदशाखाप्रवर्तनाधिकृतत्वात्, कचिदपि प्रमाणविरुद्धार्थादर्शनात्, परिग्रहातिशयाच्च ।
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy