SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3785 अधीत्य तन्त्रं सकलस्वतन्त्रादध्यैषि भाष्यं विबुधाप्रधृष्यम् । यस्मादकस्मात्कृपया प्रसन्नं तं श्रीनिवासाध्वरिणं नमामि ॥ मदग्रजानुग्रहलब्धबुद्धिः विविच्य रुच्या परिभाष्य भाष्यम् । विरोधिनात्रोद्गळितान्विरोधान् धुनोमि तेनाशु धिनोमि साधून् । इह खलु भगवान् कारणब्रह्मैकविषयकं प्रदिदर्ष(श)यिषुब्रह्म जिज्ञास्यं प्रतिज्ञाय तल्लक्षणं च जगत्कारणत्वमुपादिक्षत् । __ अथातो ब्रह्मजिज्ञासा । बृहत्त्वब्रह्मत्वयोरुद्देश्यतावच्छेदकविधेयते समदीदृशच्च । एवं का. रणं तु ध्येय इति श्रुत्यभिहितापवर्गहेतुानविषयः । End: तत्र तद्धर्माणां शब्दान्तराणामवस्थाभेदेनान्यथासिद्धत्वात् तेषां भेदतः प्रमाणतापि युक्तेति सर्वमनवद्यम् ॥ Colophon: इति श्रीशैलश्रीनिवासविरचिते विरोधनिरोधे सप्तविंशो निरोधः ।। दोषगवेषणशीला भाष्ये भाष्ये परैरदूष्ये च । आदित्य इव दिवान्धारसद्गुणविद्भिः परं बाहिष्कार्याः ॥ त्रयीवधूहृद्दवधूय(व्य)थाकथाविधूननाबाधसमेधितोक्तिषु । विरोधमाधातुमुशन्ति ऐह ये भृशं प्रशान्तरेष(णू )त्कटकण्टकेष्विव ।। प्रच्छन्नबौद्धजन(जात)विरोधयूथं(थ)दुष्कण्टकौघमुखभङ्गकृते कृतिौ । श्रीभाष्यरत्नमयचित्र पदत्रया(भा)वमासाद्य सम्प्रति मुदं प्रददातु सद्भयः । त्रय्यन्तोदन्तदन्तावळमलघुबलं यो(ये) प्रसह्याधिरुह्य श्रीमद्भाष्याभिधानं सृणिमणिमितरप्रश्रयं नाश्रयन्ते । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy