________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3689 तत्त्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्समस्तान् पुंस्त्वे तत्त्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुतादिः ।। द्रव्याद्रव्यप्रभेदान्मितमुभयविधं तद्विदस्तत्त्वमाहुः द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ । अन्त्यं प्रत्यक् पराक् च प्रथममुभयधा तत्र जीवेशभेदात् नित्या भूतिर्मतिश्रेत्यपरमपि जडामादिमां केचिदाहुः ।।
End:
गाथा ताथागतानां गळति गमनिका कापिली क्वापि लीना क्षीणा काणादवाणी द्रुहिणहरगिरस्सौरभं नारभन्ते । क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवारवान्तं
का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदी त्रिवेदीम् ॥ Colophon:
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु तत्त्वमुक्ताकलापे अद्रव्यसरस्सम्पूर्णः ॥
___ समाप्तश्चायं तत्त्वमुक्ताकलापः ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।। दृप्य(र्वादिगर्वानलविलयनकदेशिकेन्द्रप्रणीतं शिष्ट श्रेष्ठप्रतिष्ठं व्यलिखदिह शके तत्त्वमुक्ताकलापम् । श्रीमच्छ्रीशैलवंश्यश्शतमखचतुराम्नायतातार्यकुल्यश्शल्योऽकल्यस्य होणे वहजयविमिते देशिकाचार्यवर्यः ।। श्रीमद्वेदान्तविद्यागुरुतिलककृपासारसंवर्धितात्मा तद्धीप्रौढीप्ररूढिप्रचुरतरसरयुक्तिसच्छुक्तिसूतिः । जीयाद्विद्वन्मनीषानिकषकषणतस्तत्त्वमुक्ताकलापः सन्नश्येद्यद्रतानां बुधसदसि लसत्तत्त्वमुक्ताकलापः ।।
For Private and Personal Use Only