SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3304 www.kobatirth.org यदाहुः : Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF षोडश्या यन्त्रितो द्वादशशतकगवीदक्षिणाढ्यस्त्रिसंयुक् चत्वारिंशन्मिताग्निर्दिशतु सदमृतं चक्रराट् सोमयागः ॥ पादैष्षट्सप्तत्या त्रयोदशशतीमतीतमधिकरणैः । अध्यायैष्षोडशभिर्जयति मुनेर्जेमिनेश्शास्त्रम् || विश्वेश्वरं गुरुं नत्वा खण्डदेवरसतां मुदे | तनुते तत्प्रसादेन सहितां भ (1) हृदीपिका || इतः प्राभोऽखिला ग्रन्था न्यूनतादोषदूषिताः । इयमेकैव पूर्णाच्छास्त्रेऽस्मिन्भाट्टचन्द्रिका || इह खलु निखिलपुमर्थानर्थसाधनौ धर्माधर्मौ साङ्गोपाड़ वेदाध्ययनैकसमधिगम्यौ । तच्च विचारमन्तरेण न भाव्यायालमिति तत्प्रदर्शनाय पर (म) कारुणिको भगवान् जैमिनिराचार्यः सकलविद्योपकारिधर्म मीमांसामथातो धर्मजिज्ञासेत्यारभ्य विद्यते वान्यकालत्वाद्यथा याज्यासम्प्रेषो यथा याज्यासम्प्रेष इत्यन्तैस्सूत्रैर्बहधिकरणगर्भितां षोडशलक्ष (क्ष) णीमभ्यर्हितां विद्यां प्रकटीचकार । अधिकरणं तु वेदवत् षडङ्गम् । " विषयो विशयश्चैव पूर्वः पक्षस्तथोत्तरः । सङ्गतिश्चेति पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः || ” इति ॥ प्रयोजनं चेति कचित्पाठः । सङ्गतिस्तु प्रसङ्गादिभेदाद्बहुविधा । तत्रेदमाद्यमधिकरणम् अथातो धर्मजिज्ञासा 1 अत्र स्वाध्यायोऽध्येतव्य इत्यध्ययनविधिवाक्यं विषयः । वेदाध्ययनानन्तरं वेदार्थविचारः कर्तव्यो न वेति सन्देहः । तत्र पूर्वः पक्षः - अधीत्य समयादिति स्मृत्याध्ययनानन्तरमेव गुरुकुलात्परावर्तनविधानविरोधान्न कर्तव्यः । न चाध्ययनविधित एवार्थज्ञानभाव्यकात्तत्सिद्धिः For Private and Personal Use Only ;
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy