________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3298
A DESCRIPTIVE CATALOGUE OF
फलश्रुतेस्तु कर्म स्यात्फलस्या कर्मयोगित्वात् । अमिहोत्रं प्रक्य(क)त्य श्रूयते-दध्नेन्द्रियकामस्य जुहुयादिति । तत्र संशयः-किमग्निहोत्रात्कर्मान्तरं दधिविशिष्टमिन्द्रियकामाय विधीयते ? उत तत्रैव गुणमात्रं फलाय विधीयत इति । तदर्थमिदं विचार्यते--
किं कर्मणः फलमुत गुणादि(देरि)ति। यदि कर्मणः, ततः प्राप्तस्य कर्मणः फलसम्बन्धं गुणसम्बन्धं च एक वाक्यं न केनाति(पि)विधातुमि(तुंशक्य)ति कर्मान्तरं स्यात् ; गुणफलसम्बन्धे तु तन्मात्रं वाक्येन विधीयते ; दधिहोमसम्बन्धस्तु आश्रयाश्रयिरूपः प्रकरणप्राप्तोऽनूद्यमानो न वाक्यं भिनत्तीति सिद्धमेकवाक्यत्वमकर्मान्तरत्वेऽपीति फलफलीभावः । End: ___तथा सति सङ्ख्यामुष्ट्यधिकरणविरोधापत्तेः । तथाहि वाजपेये श्रूयन्ते-बार्हस्पत्यो नैवारस्सप्तदशशरावश्वरुर्भवतीति । अस्ति च प्रकृतौ चतुरो मुष्टीनिर्वपतीति । चतुस्सङ्ख्यामुष्टिद्रव्यं च तदुभयमपि चोदकेनेह प्राप्तम् ; चतुर्भिर्मुष्टिभिस्सप्तदशशरावः कर्तुं न शक्यत इत्यन्यतरबाधावश्यम्भावे कस्य बाधः, कस्यानुग्रह इति संशये सङ्खचाया द्रव्याङ्गत्वात् प्रधानस्य.
No. 4417. तन्त्रशिखामणिः. TANTRASIK HAMANIH
Substance, palm-leaf. Size, 153 x 1} inclhes. Pages, 81. Linos, 8
ou a page. Character, Grantha. Condition, good. Appearance, new. Contains only 12th Adhyaya complete.
A commentary on the Mīmāṁsāsūtras of Jaimini : by Rajacidāmani-diksita, son of Venkatasrinivasa-diksita.
See under the next vumber for the beginning.
For Private and Personal Use Only