________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3289
अनन्तगुणसम्पन्नमनन्तभजनप्रियम् ।
अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ इह खलु परमकारुणिकेन भगवता जैमिनिना अथातो धर्मजिज्ञासेत्यारभ्य द्वादशाध्यायेषु तत्र वेदेन प्रयोजनमुद्दिश्य विधीयमानोऽर्थी धर्मः ; यथा--यागादिः । स हि यजेत स्वर्गकाम इत्यादिवाक्येन स्वर्ग मुद्दिश्य विधीयते । तथा हि
यजेतेत्यत्रास्त्यंशद्वयम्-~-यजधातुः प्रत्ययश्च । तत्राप्यस्त्यंशद्वयम् ---- आख्यातत्वं लित्वं च । आख्यानत्वं च दशलकारेषु विद्यते ; लिङ्त्वं पुनः केवलं लिङयेव । (तत्र) आख्यातत्वलिङ्त्वाभ्यां भावनैवोच्यते । भावना नाम भवितुर्भवनानुकूलभावुकव्यापारः । End:
सोऽयं धर्मो यदुद्देशेन विहितः, तदुद्देशेन क्रियमाणस्तद्धेतुः । गोविन्दार्पणबुद्ध्या क्रियमाणस्तु निश्श्रेयसहेतुः । न च तदर्पणबुद्ध्यानुष्ठाने प्रमाणाभावः;
" यत्करोषि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यास कौन्तेय तत्कुरुष्व मदर्पणम् ॥” इति स्मृतेः । अस्याश्चाष्टकादिस्मृतिवत् प्रामाण्यादित्यन्यत्र विस्तरः ॥ काहं मन्दमतिः केयं प्रक्रिया भट्टसम्मता । अ(त)स्माद्भक्तेर्विलासोऽयं गोविन्दगुरुपादयोः ।। ग्रन्थरूपो मदीयोऽयं वाग्व्यापारस्सुशोभनः ।
अनेन प्रीयतां देवो गोविन्दो भक्तवत्सलः ।। Colophon:
इति श्रीमदनन्तदेवसू नुना आपदेवेन कृतं मीमांसाशाराप्रकाठा. संज्ञकमीमांसाप्रकरणं सम्पूर्णम् ॥
For Private and Personal Use Only