________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3276
A DRSORIPTIVE CATALOGUE OF
Beginning :
महेश्वरं नमस्कृत्य शैवेयं गणनायकम् ।
गुरुं च परमात्मानमजं संसारतारणम् ॥ पार्वत्युवाच
देवदेव महादेव कृपां कृत्वा ममोपरि । सर्वसिद्धिकरं ज्ञानं कथयस्व मम प्रभो ॥ कथं ब्रह्माण्डमुत्पन्नं कथं वा परिवर्तते ।
कथं विलीयते देव वद ब्रह्माण्डनिर्णयम् ॥ ईश्वर उवाच- -
तत्त्वाद्ब्रह्माण्डमुत्पन्नं तत्त्वेन परिवर्तते । तत्त्वे प्रलीयते देवि तत्त्वाद्ब्रह्माण्डनिर्णयः ।। सर्वलोकस्य भेदानां न देहे तत्त्वाभिन्नकम् ।
इति तत्त्वनिर्णयः ।। देव्युवाच
तत्त्वमेव परं मूलं निश्चितं तत्त्ववादिभिः ।
तत्त्वस्वरूपं किं देव तत्त्वमेव प्रकाशय ।। ईश्वरः--
निरञ्जनं निराकारमेको देवो महेश्वरः । तस्मादाकाशमुत्पन्नमाकाशाद्वायुसम्भवः ।।
*
अतस्तत्सं(स्तं सं)प्रवक्ष्यामि शरीरस्थं स्वरोदयम् । हंसचार(रु)स्वरूपेण भवेज्जानं त्रिकालिकम् ।। गुह्याद्गुह्यतरं सारमप्रकाश्यं प्रकाशितम् । इदं स्वरोदयं ज्ञानं सर्वशास्त्रशिरोमणिम् ॥
*
For Private and Personal Use Only