________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8269
Beginning: . - शिष्यो गुरुणा एवमुपदिष्टः पुनरिदमभाषत
स्वामिन् अमनस्कलक्षणमिदानीं श्रुतमपि विस्मृतमिव भाति । तदर्थाय पुनर्वक्तव्यम् ।
इति प्रार्थितः परमयोगी शिष्यमवादीत् --- अद्वैतमत्यन्तरहस्यं शृणु सद्यः कृतार्थो भवसि । नित्यं शाम्भवीमुद्रिकान्वितः पूर्वोक्तप्रकारेण परमात्मदृष्ट्या प्रत्ययानि लक्ष्याणि दृष्ट्वा दृष्ट्वा हासः ।
End:
तस्मात्संसारानिर्विष्णः परमयोग(गी)ब्रह्ममार्गमवलम्ब्य मूलाधारमण्डलीसमुत्थितवायुमिडापिङ्गळसञ्चारकेवलमु(व्यु)त्क्रमेण सुषुम्नाबिलं प्राप्य तमुद्घाट(ट्य) वैपुल्यत(ल्यात्त)न्मार्गे(ण) ब्रह्मविष्णुरुद्रग्रन्थिभेदपुरस्सरमाज्ञादहरं भित्त्वा तारकानुसन्धानेन तारकेशार्धबिम्बमध्यमार्गेणानगळपरिविजृम्भमाणममतेजः कूटपाटनास्फोटनधळधळायमानतेजो भूत्वा तत्समीपगविश्वव्योमव्याप्तपरिपूर्णचन्द्रमण्डलनिविष्टसान्द्रामृतनिष्यन्दबिन्दुसन्दोहपान - परितृप्तसदानन्दरूपनिःश्रेयःप्राप्तानेस्संशयतत्त्वाकारो भूत्वा सदानन्दावधूतकृपा(बला)त् दैववशात् मुक्तस्सोऽतिभावितव्यः ॥ Colophon;
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचिते(तायां) विजृम्भितयोगशास्त्रकृते(तौ) पञ्चमप्रकरणं समाप्तम् ।।
No. 4382. शाम्भवी-मुद्रा.
SAMBHAVI-MUDRÁ. Page, 1. Lines, 60a page.
Begins on fol. 2la of the MS. described under No. 116. Incomplete.
For Private and Personal Use Only