________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1266
A DESCRIPTIVE CATALOGUB OP त(क)स्मिन्स्थाने वसेन्नित्यं सूर्यसोमामिमण्डलम् । त(क)स्मिन् स्थाने सुषुम्नाख्यनाडी सम्यक् प्रकाशते ॥
तत्सर्वं ब्रूहि मे शम्भो श्रोतुमिच्छामि मा(म्यहं)सदा । ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं मया(हत्) । मुनीनां मोक्षसिद्ध्यर्थ पुरा प्रोक्ता(क्तं) मयानघे । राजयोगामृतं नित्यं सद्यो मुक्तिप्रदायकम् ।। अजपामन्त्रसंयुक्तं रेचपूरककुम्भकैः । कृत्वाभ्यासं(भ्यसेत् ) सदा योगी मन्त्रयोग मु(उ)दाहृतम् (:) || साङ्ख्यरूपेण प्रणवं कृत्वा वायुनिरोधने । साङ्ख्ययोग मि(इ)ति प्रोक्तं (क्तः) पवनाभ्यासिभिस्सदा ।। रेचपूरककुम्भादि देहरोधनपूर्वकम् । कृत्वाभ्य[I]सेस(स)दा योगी हठयोग मि(इ)ति स्मृतम्:) ।। भ्रूमध्ये परमात्मानं ध्यात्वा सुज्योतिरूपिणम् । लीयते मनसा नाद(दो) लययोग मि(इ)ति स्मृतम्(:) ॥ पाञ्चभौतिकसंयोगाज्जायते नादसंज्ञकम् । हृच्चित्तबुद्धिसंयोगात् जायते बिन्दुसंज्ञकम् ।।
End:
ज्योतिं दृष्ट्वा हृदाकाशे समुक्तिर्नात्र संशयः । आसने(नं) व्याधिनाशाय प्राणायामे न पातकः(म्) । अथ नादानुसन्धाने चित्तं स्थिरतरं भवेत् । ज्योति प्रकाशे कैवल्यं नान्यथा मुक्तिसाधनम् ।। वाचातीतं मनोऽतीतं गुणातीतं निरञ्जनम् ।
For Private and Personal Use Only