________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3264
A DESORIPTIVE CATALOGUE OF
Beginning:
हृदयकमलमध्ये चिन्तितोऽहं गुरूणाममलविमलसूक्ष्मं सर्वदा साक्षिभूतम् । अखिलनिगमवेद्यं सच्चिदानन्दमूर्ति मम हृदयनिषण्णं श्रीगुरुं चिन्तयामि ।। कैलासवास सर्वेश दीनरक्ष दयानिधे । योगिनामपि सर्वेषां कथं श्रेष्ठं कथं परम् ।। कथं मुक्तिः कथं देवः कथं ज्ञानप्रकाशकम् । कथं ज्योतिः कथं नादः कथमानन्ददायकम् ॥ कस्मिन् स्थाने वसेन्नित्यं सोमसूर्याग्निमण्डलम् । कस्मिन् स्थाने सुषुम्नाख्या नाडी सम्यक् प्रकाशते ।।
तत्सर्व ब्रूहि मे शम्भो श्रोतुमिच्छाम्यहं सदा । ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतमं महत् ॥ मुनीनां मोक्षसिद्ध्यर्थ मया प्रोक्तं वरानने । राजयोगामृतं नित्यं सद्यो मुक्तिप्रदायकम् ।। अजपामन्त्रसंयुक्तं रेचपूरककुम्भकैः । कृत्वाभ्यास सदा योगी हठयोग इति स्मृतः ॥ साङ्ख्ययोग इति प्रोक्तं पवनाभ्यासिनां सदा। . रेचपूरककुम्भादिदेहशोधनपूर्वकम् ।।
End:
आदौ सद्गुरुमाश्रित्य तत्त्वज्ञानं समभ्यसेत् ।। आत्मानं गगनं श्रुत्वा बिन्दून् श्रुत्वा तथैव च ॥
For Private and Personal Use Only