SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra . www.kobatirth.org 3570 कस्त्वं शिशोकस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि । एतद त्वं मम चार्भक त्वं मत्प्रीतये प्रीतिविवर्धनोऽसि ॥ नाहं मनुष्यो न च देवयक्षो न ब्राह्मणक्षत्रियवैश्यशूद्रः । न ब्रह्मचारी न गृही वनस्थो भिक्षुश्च नाहं निजबोधरूपः ॥ निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यस्स नित्योपलब्धिस्वरूपोऽ [ऽहमात्मा ॥ मूढ श्रीवल्याख्ये ग्रामे कस्यचिद्विप्रस्य भूतत्वेनाविर्भूतदेहो जन्मान्तरानुष्ठितश्रवणादिना निवृत्तमिथ्याज्ञानो दिव्य जनैः पिशाचत्वेनाभिमतः शङ्कराचार्यैः कस्त्वं पृष्टस्सन् स्वानुभवं वदनूये ( न्नन्ये ) षामपि मुमुक्षूणामनुभवो भूयादिति प्राणिनामनु दशभिः श्लोकैरात्मत्वमुपनिष ( द ) समधिगम्य प्रत्युत्तरच्छलेनाह-- निमित्तमित्यादिना । अत्र स्वरूपलक्षणतटस्थलक्षणाभ्यामात्मा उपलक्ष्यते । End: Colophon : I A DESCRIPTIVE CATALOGUE OF एवमात्मानं सम्यग्दर्शनेन निश्चित्य स्वगुरुमभिष्टौति— उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । यथा चन्द्रिकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो || सन्मणीनामुपाधौ यथा भेदता बुद्धिभेदेषु तेऽपि तथा भेदता । चन्द्रिकाणां जले यथा चञ्चलत्वं चपलत्वं हे विष्णो तवापि यदिदं चपलत्वमिति सम्ब | सन्मणीनां सन्तश्च ते मणयश्च सन्मणयः स्फटिकमरकतादयः तेषाम् । जपाकुसुमाद्युपाधौ सन्नि - हिते सति लौहित्यादिप्रतीतिर्यथा लोके दृश्यते तथा ( देहाद्युपाधौ ) सन्निहिते सति सात्त्विकत्वादिप्रतीतिः ; न परमार्थतः । उपाधी - नां भ्रान्तिज्ञानपरिकल्पितत्वेन मिथ्यात्वं पूर्वमेवावोचत् । दृष्टान्तमाहचन्द्रिकाणां यथा जले चञ्चलत्वं तथेह बुद्धौ चञ्चलत्वं तवापि न परमार्थतः । तस्मादेकमेवाद्वितीयं ब्रह्मेति प्रसिद्धम् ॥ . Acharya Shri Kailassagarsuri Gyanmandir · इति हस्तामलकव्याख्यानं समाप्तम् ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy