________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3241
निराकारं निरालम्ब निष्प्रपनं निरालयम् । निरामयं निराहारं तत्त्वं तत्त्वविदो विदुः ॥ निराटके निरालम्बे निष्प्रपञ्चे निरामये । योगी योगविधानेन परब्रह्मणि लीयते ।।
End:
निवर्तयन्ती निखिलेन्द्रियाणि प्रवर्तयन्ती परमात्मयोगे । संविन्मयीं नां सहजामनस्कां निद्रां सखे निर्विश निर्विकल्पाम् ।। प्रकाशमाने परमात्मभावं नौ नश्यन्ति(त्य)विद्यातिमिरं (रे)समस्थे(स्ते)। अहो बुधा निर्मलदृष्टयोऽपि किञ्चिन्न पश्यन्ति जगत्प्रपञ्चम् ।। शीधं(सिद्धे) तथा मम मनोविलयं(ये)समाधी श्रीशैलशृङ्गकुहरषु तथो
पलप्स्ये । गात्रं यथा मम लताः पारवेष्टयन्ति कर्णे यथा विरचयन्ति शुकाश्च नी
डा(न् ) ॥ विहरतु मतिरेषां निर्विकल्पे समाधी कुचकलशयुगे वा कृष्णसारेक्षणानाम् । रच(य)तु ज वव(न)तासञ्जल्पमल्पं समन्तादधिकृतगुणदोषौ मां विभुं न स्पृशन्ति ।। अहिमिव जनसङ्गं सर्वदा वर्जयेद्यः कुणपमिव सुनारी त्यक्तकामो विरागी । विषमिव विषयाप्तान् मन्यमानो दुरन्तो जगति परमहंसो मुक्तिभावं समेति ।। आसनं शीथ(सिद्ध)सदृशं न नाद सदृशो लयः । न खेचरीसमा मुद्रा न कुम्भः केवलोपमा(मः) ||
For Private and Personal Use Only