________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3562
This and the next volume contain the Jijñāsāsūtravivaraṇaliptiprakarna, which is the first Prakaraṇa.
Beginning:
A DESCRIPTIVE CATALOGUE OF
ओङ्काराय नमस्तस्मै यन्मूला मन्त्रमातृका । सोऽहमात्मा यतस्सोऽपि तां च शक्तिं परां भजे 11 श्रीपारिब्रह्मच (व्रज्य) साम्राज्यलक्ष्मीललितमूर्तये । वासुदेवयतीन्द्राय गुरवे करवे नमः ॥ जडीकृतजगत्यन्तस्तमस्सम्भेदम (क) र्मणे । रामभद्रयतीन्द्राय महते महसे नमः ॥ जगज्जन्मस्थेमाप्यथ(य)नियमसीमादिमगुरुः विचेयो योगेनानिदमुदयवाचिर (चा) मवधिषु । प्रकाशानन्दात्मा परिमुषितनिश्शेषकलुषः त्रिभेदातीतो धीनटनच साक्षी विजयते ॥ स्वालोकक्षणविप्लुतस्य परधीभेदेऽन्यराजन्यके साकूतस्मितविभ्रमाञ्चितमुपायान्या (न्त्यां ) निजस्यन्दनम् । रुक्मिण्यां मिषति त्वशेषदिविषहर्गे रथारोहणव्याजालिङ्गनतो हरेरवतु न(१) स्तैमित्यमानन्दजम् ॥ परिचयमुपयामो भारतीपादपद्मे यदुपनिहितलाक्षापङ्कलक्षण्यमुद्रा । प्रणयकलहनम्रे पद्मभूमौलिदेशे प्रथमशरविलासं पञ्चबाणस्य धत्ते ॥ ये वेदान्त सुधोदधिं सुमनसां निःश्रेयसाय स्वयं निर्मथ्योदहरन्निरूपणगुणावृत्तेन चेतोमथा । अद्वैतामृतमासुरानुशयिनामास्वादनीये तर - न्नानास्माकगुरोरुपैमि भगवत्पादादिमान् देशिकान् ॥
इह खलु तावदतीतानेकभवपरम्परासमर्जितसुकृत सम्पदावर्जितभगवदनुग्रहासादितसत्त्वप्रसादितया सम्पन्नविवेकवैराग्यादिसाधनो मात्रयापि
For Private and Personal Use Only