________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3558
No. 4768. सिद्धान्तलेशसअहव्याख्या. SIDDHĀNTALĒŠASANGRAHA VYĀKHYĀ. Substance, paper. Size, 11 x 83 inches. Pages, 161. Lines, 20
on a page. Character, Dāvanāgarī. Condition, good. Appearance, new. Incomplete.
A commentary on the Siddhāntalēšasangraha of Appayadīkşita. Beginning :
वेदवेद्यमुमाकान्तं कुमाराभ्यामलङ्कृतम् । नन्दीशप्रमुखैस्सेव्यं प्रणमामीष्टसिद्धये ॥
*
यो मे विश्वेश्वरक्षेत्रं विश्वेश्वरसमो गुरुः । समध्यास्ते खयंज्योतिर्वाणीसंज्ञो भजामि तम् ।। यस्य शिष्यप्रशिष्याबैर्व्याप्तेयं साम्प्रतं मही । सर्वज्ञस्य गुरोस्तस्य चरणौ संश्रहे(ये) सदा ॥ गुरोरपि गरीयान्मे यः कलाभिरलङ्कतः । अद्वैतानन्दवाण्याख्यस्तं वन्दे शमवारिधिम् ॥
श्रीकृष्णचरणद्वन्द्वं प्रणिपत्य निबन्धनम् । व्याकुर्वे शास्त्रसिद्धान्तलेशसङ्ग्रहसंजितम् ।।
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तिप्रचयगमनयोस्सिद्धये भगवत्पादीयभाष्यस्तुतिमुखेन श्रीमूर्तिचरणारविन्दगङ्गयोरनुसन्धानलक्षणमपि मङ्गलं करोति-शौरीति । शौरिपदोद्गता सरित् महीभेदान् संप्राप्य यथा सहस्रधा अधिगतभिदा, तथा भगवत्पादश्रीमुखाम्बुजनिर्गतं(ता) ब्रह्माहयैकपरायणा जननहरिणी सूक्तिः पूर्वाचार्यान् व्याख्यातन् व्याख्येयत्वेनोपेत्यार्थतस्सहस्रधाधिगतभिदा सती जयतीति सम्बन्धः ।
For Private and Personal Use Only