________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3557
THE SANSKRIT MANUSCRIPTS. जयति भगवत्पादश्रीमन्मुखाम्बुजनिर्गता जननहरिणी सूक्तिब्रह्माद्वैत(द्वयैक परायणी ।। प्राचीनैर्व्यवहारसिद्धविषयेष्वात्मैक्यसिद्धौ परं सन्नह्यद्भिरनादरात्सरणयो नानाविधा दर्शिताः । तन्मूलानिह सङ्ग्रहेण कतिचित्सिद्धान्तलेशान्धियः शुद्ध्यै सङ्कलयामि तातचरणव्याख्यावच ख्यापितान् ।। तेषूपपादनापेक्षान् पक्षान् प्रायो यथामति ।
युक्त्योपपादयन्नेव लिखाम्यनतिविस्तरम् ।। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्य इत्यधीतसाङ्गखाध्यायस्य वेदान्तैरापातप्रतिपन्ने ब्रह्मात्मनि समुदितजिज्ञासस्य तत्त्वज्ञानाय वेदान्तश्रवणे प्रतीयमानो विधिः किंविध इति चिन्त्यते । तिस्रः खलु विधेर्विधाः--अपूर्वविधिनियमविधिः परिसङ्ख्याविधिश्चेति । तत्र कालत्रयेऽपि कथमप्यप्राप्तस्य प्राप्तिफलो विधिराद्यः--यथा ब्रीहीन् प्रोक्षतीति । नात्र ब्रीहीणां प्रोक्षणस्य संस्कारकर्मणो विना नियोगं मानान्तरेण कथमपि प्राप्तिरस्ति । पक्षप्राप्तस्वानाप्तांशपरिपूरणफलो विधिद्धितीयःयथा ब्रीहीनवहन्तीति । अत्र विध्यभावेऽपि पुरोडाशप्रकृतिद्रव्याणां तण्डुलनिष्पत्त्याक्षेपादेव अवहननप्राप्तिीव-यतीति न तत्त्राप्तयर्थोऽयं विधिः ; किं त्वाक्षेपादेवावहननप्राप्तौ तद्वदेव लोकावगतकारणत्वाविशेषात् नखविदळनादिरपि प्रामुयादिति अवहननाप्राप्तांशसम्भवात्तदंशपरिपूरणफलः । द्वयोश्शेषिणोरेकस्य शेषस्थ एकस्मिन् शेषिणि द्वयोश्शेषयो नित्यप्राप्ती शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिस्तृतीयः--- यथा अग्निचयने इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानमिादत्त इति । यथा चातुर्मास्यान्तर्गतेष्टिविशेषे गृहमेधीये आज्यभागौ यजतीति अग्निचयने अश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमनुष्ठेयम् ।
For Private and Personal Use Only