________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
3536
This commentary on the Vedantaparibhāṣā is by Ramakṛṣṇādhavarindra, son of Dharmarajadhvarindra, the author of the original work.
Beginning:
नैदाघभानुकिरणेष्विव वारिपूर: सर्वो विभाति यदबोधवशात्प्रपञ्चः । मालाफणीव च निमीलति यत्प्रबोधात् तद्ब्रह्म नौमि सुखमद्वयमात्मरूपम् || आ सेतोरा सुमेरोरपि भुवि विदितान्धर्मराजाध्वरीन्द्रान् वन्देऽहं तर्कचूडामणिमणिजननक्षीरधस्तातपादान् । यत्कारुण्यान्मयाभूदधिगतमधिकं दुर्ग्रहं सूक्ष्मधीकैः अप्यान्तं शास्त्रजातं जगति मखकृता रामकृष्णाह्वयेन || वेदान्तपरिभाषाख्यां सोऽहं तातविनिर्मिताम् । व्याकरोमि कृतिं सर्वश्रुत्यन्तार्थप्रकाशिकाम् ॥
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
प्रेक्षावत्प्रवृत्त्यर्थं विषयप्रयोजने निर्दिशन्निर्विघ्नपरिसमाप्तये मङ्गलमाचरितं शिष्यशिक्षायै ग्रन्थतो निबध्नाति - यदविद्येति । तं परमात्मानं नौमीति संबन्धः । जीवाभिन्नं ब्रह्म शास्त्रप्रमेयमिति सूचयितुमात्मशब्दः । नन्वेवं तस्यैव तमेव प्रति उत्कर्षापकर्षाभावात् नमस्कर्तृनमस्कार्यतानुपपत्ति-रित्याशङ्क्य कल्पितभेदमादाय अविद्याप्रतिबिम्बितं कर्तृत्वादिविशिष्टमपकृष्टं रूपं नमस्कर्तृ ; तद्व्यावृत्तं सर्वज्ञत्वादिविशिष्टमुत्कृष्टं रूपं नमस्कार्यमित्यभिप्रेत्याह-परमेति । ननु ब्रह्मणि लक्षणपुत्रा (प्रमा णा (नाम) भावेन तस्यैवासिद्धेः कथं जीवब्रह्माभेदश्शास्त्रार्थ इति चेन्न तावत् प्रमाणाभावः भूतभौतिकोत्पत्तेस्तत्र प्रमाणत्वात्, तथाहि विवादविषयीभूतानि भूतभौतिकादीनि स्वोपादानापरोक्षज्ञानवत्प्रणीतानि कार्यत्वात् घटवत्; न च परिदृश्यमान पृथिव्यादौ प्रत्यक्षेण कार्यत्वसिद्धावपि अतीन्द्रियतया परमाण्वादिषु भागासिद्धो हेतुरिति वाच्यम् ; तत्त्रापि पृथिवीत्वादिना कार्यत्वकल्पनात् । नचाप्रयोजकत्वम् ; लाघवानुगृहीतेन प्रत्यक्षेण घटादी कार्यत्वेनैव कर्तृजन्यत्वावगमात् ।
;
For Private and Personal Use Only