SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TXE SANSKRIT MANUSCRIPTS. 3531 Beginning: यदविद्याविलासेन भूतभौतिकसृष्टयः । तं नौमि परमात्मानं सच्चिदानन्दविग्रहम् ।। यदन्तेवासिपञ्चास्यैर्निरस्ता भेदिवारणाः । तं नौमि नारसिंहाख्यं यतीन्द्रं परमं(गुरुम् ) ।। श्रीमद्वेङ्कटनाथाख्यान्विलङ्गाडिनिवासिनः । जगद्गुरूनहं वन्दे सर्वतन्त्रप्रवर्तकान् ॥ येन चिन्तामणौ टीका दशटीकाविभञ्जनी । तर्कचूडामणिनाम कृता विद्वन्मनोरमा । टीका शशधरस्यापि बालव्युत्पत्तिदायिनी । पदयोजनया पञ्चपादिका व्याकृता तथा ।। तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी । धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते ॥ इह खलु धर्मार्थकाममोक्षेषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुपार्थः ; न स(च)पुनरावर्तत इति श्रुतेः तस्य नित्यत्वावगमात् । इतरेषां त्रयाणां प्रत्यक्षेण, तद्यथेह कर्मचितो लोकः क्षीयते । एवमे(वा)मुत्र पुण्यचितो लाकः क्षीयत इत्यादिश्रुत्या चानित्यत्वावगमात् । स च ब्रह्मज्ञानादिति ब्रह्म तज्ज्ञानं, तत्प्रमाणं च सप्रपञ्चं निरूप्यते । तत्र प्रमाकरणं प्रमाणम् । तत्र स्मृतिव्यावृत्त(ज्ञानत्वं) प्र(मा)त्वम् अनधिगताबाधितार्थविषयकज्ञानत्वं वा । स्मृतिसाधारणं तु अबाधितविषयकज्ञानत्वम् ; नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन धारावाहिकबुद्धेरपि पूर्वपूर्वज्ञानाविषयतत्तत्क्षणविशेषविशिष्टविषयकत्वेन न तत्राव्याप्तिः । किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः । End: तदुक्तमाचार्यवाचस्पतिमिश्रः उपासनायास्संसिद्धितोषितेश्वरचोदितम् । अधिकारं समाप्यैते प्रविशन्ति परं पदम् ।। इति ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy