________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8529
अदेहित्वादनादित्वादवाच्यत्वान्न विद्यते । वर्तमानगतागामिकालेभ्योऽस्य परिच्छति (च्छिदा) । सर्वाभिन्नस्वरूपेण सर्वात्मत्वात्सदात्मनः । सर्वेभ्यो वस्तुजातेभ्यो(:) परिच्छित्तिर्न विद्यते ॥ न व्यापित्वाद्देशतोनो(ऽपि) नित्यत्वान्नापि कालतः । न वस्तुतोऽपि सर्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा ।। अखण्डात्माहमेवायमित्येवं यो विजज्ञिवान् । स सर्वसंसृतेर्मुक्तो ब्रह्मानन्दं समश्नुते ॥ किमनेन बहूक्तेन प्रणीतौ द्वौ महात्मभिः । अविचाराद्धि संसारो विचारान्मोक्ष इत्विमौ(त्यमू) ॥ प्रमादाद्वा यदज्ञानादिदं शास्त्रं मयेरितम् ।
तत् क्ष()म्यन्तु समालोक्य पण्डितास्समदर्शिनः ॥ Colophon:
इति विवेकसारे द्वादशवर्णकं समाप्तम् ॥
No. 4726. वेदान्तडिण्डिमः.
VEDANTADINDIMAH. Pages, 6. Lines, 22 on a page.
Begins on fol. 22b of the Ms. described under No. 1021. Complete in 67 stanzas.
On the general principles of Advaita-Vedanta. Each stanza ends with the word Vēdāntaļiņdimaḥ and hence the work itself has come to be called Vēdāntaļiņdima. Beginning:
वेदान्तडिण्डिमास्तत्त्वमेकमुद्घोषयन्ति यत् । आस्तां पुरस्तात्तत्तेजो दक्षिणामूर्तिशब्दितम् ।। आत्मानात्मपदार्थों द्वौ भोक्तृभोग्यत्वलक्षणौ । बझैवात्मा न देहादिरिति वेदान्तडिण्डिमः ॥
For Private and Personal Use Only