SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3525 रणप्रतिपाद्याद्वितीयबोधस्मरणपूर्वकं नमस्कारस्यावश्यकर्तव्यतां द्योतयन्तस्वयं नमस्कुरुते । सर्गस्थितिप्रळयहेतुमचिन्त्यशक्ति विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् । निर्मुक्तबन्धनमपारसुखाम्बुराशिं श्रीवल्लभं विमलबोधधनं नमामि ।। (व्या.) विमलबोधघनं नमामीत्यन्वयः । विगतो मला यस्मादसौ विमलः । विमलश्वसौ बोधश्च विमलबोधः । स एव घनो मूर्ति(:) वरूपमिति यावत्। परमात्मनोऽविद्यारहिततया तदविद्यापरिकल्पितस्य घटादिदृश्यस्याभावे तदालम्बनरूपो मलो न विद्यते । अतो विमलः निर्विकल्पः अद्विती. यज्ञानमिति यावत्। अद्वितीयबोधस्य मनसोऽप्यविषयत्वात् कथं नमस्कारविषयत्वमित्यत आह-विश्वेश्वरमिति । अद्वितीयबोधस्यैव विश्वस्वामित्वेनावस्थानात् नमस्कारविषयत्वमुपपद्यत एवेत्यर्थः । एवं चेदद्वितीयबोधस्य विश्वस्वामित्वसम्पादनाय शरीरस्वीकार एव नोपपद्यत इत्यत आहअचिन्त्यशक्तिमिति । शक्तिशब्देनात्र मायेत्यभिधीयते । सा च बोधास्मनो ब्रह्मणो भिन्नाभिन्नत्वादिरूपेण चिन्तितुं नाहतीत्यचिन्त्या। अचिन्त्यत्वं मायायाः कथमिति चेदुच्यते । इयं तु बाधबाध्यत्वात्स्वप्नसदृशी भवति । युक्तिहीनप्रकाशत्वादस्या मायेति संज्ञा । इयमसती न भवति दृश्यत्वात् ; न हि शशविषाणादिकमस दृश्यते । सती च न भवति बाध्यमानत्वात् । End: "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥" "ज्ञानामिस्सर्वकर्माणि भस्मसात्कुरुते तथा । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥" "तत्र को मोहः कः सोक एकत्वमनुपश्यतः ।" For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy