________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3521
यस्य श्वासा निगमनिचया यश्च तन्मात्रमेयः तं प्रत्यञ्च शिशुशशिशिखं साम्बमूर्ति नतोऽस्मि ॥
गुरून्नत्वा सुतत्त्वज्ञान् दयालून् रामवत्सदा । लौकिकन्यायरत्नानामाकरस्तन्यते मया ॥ न्यायार्थ विषयश्चैवोदाहृतिञ्च यथामति । वदिष्यामोऽत्र संक्षेपाद्विस्तरादपि कुत्रचित् ॥ प्रसङ्गादागतानान्तु न्यायानामत्र विस्मृते । अर्थमात्र वदिष्यामः कचिदन्यामुदाहृतिम् ॥
यथा चान्यनिबन्धेषु बहुष्वप्यन्यगोचरः । विचारो दृश्यते तद्वद्भवत्वत्रापि न क्षतिः ।। ससैन्धवेऽपि मौद्रे हि सूपे मौद्गत्ववद्धवम् । श्रुत्यन्तस्य निबन्धत्वं निबन्धस्यास्य गम्यताम् । तत्तदीयैरनूबन्धरिदं स्यादनुबन्धवत् । तदीयाः केऽनुबन्धास्स्युरिति चेत्त्वमवेहि तान् ॥
ननु तेषां तात्त्विकत्वबाधेऽपि व्यावहारिकत्वं न बाध्यते । तावन्मात्रेण च कार्यकारित्वोपपत्तेनोपजीव्यविरोधः उपजीव्यस्य व्यावहारिकत्वस्य बाधात् । बाधितस्य च तात्त्विकस्यानुपजीव्यत्वादिति चेन्न ; पदार्थेषु तात्त्विकत्वव्यावहारिकत्वविभागस्य वैदिकवाधनिश्चयात्रागसिद्धः ।
End:
एकस्मादीशाद्यत्कार्य न तद्भ्योऽप्यनीशेभ्य इति विवक्षायां शतमन्धानां न पश्यतीति न्यायः । मन्दादप्य कस्मान्महाकार्यजनिस्तु घुगाक्षरन्यायेन बोध्या । यथा तेन कृतं छिद्रमकस्मारककारा कृतिवात तथा तदपि ज्ञेयम् । पूर्वार्धे न्यायाः . . . . मिलिताः ॥
For Private and Personal Use Only