SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 3518 १. अध्यारोपापवादनिरूपणम्. २. अनुबन्धचतुष्टयनिरूपणम्. ३. प्रपञ्चविमर्शननिरूपणम्. ४. दुःखादिविचारनिरूपणम्. ५ कर्तृत्वकारयितृत्वविमर्शननिरूपणम्. Beginning: बालानामुपकाराय ममापि ज्ञानसिद्धये । तत्र श्रीबालगोपालकृष्णस्सन्निहितो भवेत् ॥ इह खलु धर्मार्थकाममोक्षाणां चतुर्विधपुरुषार्थानां मध्ये मोक्ष एव परमपुरुषार्थः; नित्यत्वात् , न च पुनरावर्तत इति श्रुतेः । इतरेषां त्रयाणां न तथात्वम् ; अनित्यत्वात्, तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयत इति श्रुतेः । स मोक्षश्च ब्रह्मज्ञानादेव सिध्यति ; तमेवं विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनायेति, ब्रह्मविदाप्नोति परमित्यादिश्रुतिभ्यस्तद्ब्रह्म “अध्यारोपापवादाभ्यां जातव्यस्तत्त्वनिर्णयः” इति ; न कर्मणा न प्रजया न त्यागेन धनेन वेति श्रुतेः । तस्मान्मुमुक्षूणामध्यारोपापवादावऽवश्यं ज्ञातव्यौ । अत्राध्यारोपो नाम शुक्तिकायां रजतवत्, रज्जौ सर्पवत् , मरुमरीचिकायां जलवत्, स्थाणौ पुरुषवच्च, निष्प्रपञ्चात्मवस्तुनि प्रपञ्चारोपः । अयमध्यारोपः वस्त्वज्ञानादारोपः । तदज्ञानमेव अविद्या, तमः, मोहः, मूलप्रकृतिः, प्रधानम्, गुणसाम्यम् , अव्यक्तम् , माया, इति चोच्यते । मूलप्रकृति म शुक्लकृष्णरक्ततन्तुसमुदायरूपरज्जुवत् सत्त्वरजस्तमोगुणसमुदायरूपा ; अस्याः प्रळयः, महासुषुप्तिरिति च, नाम । अस्यां मूलप्रकृतावनन्तकोटिजीवाः स्वस्वकर्मवासनाभिस्सह जतुपिण्डे स्वर्णरेणव इव सृष्टेः पूर्व लीना वर्तन्ते । 317-A For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy