SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3503 चात्रभवद्भिर्बादरायणभगवत्पादादिभिः पूर्वाचार्यैरारम्भणाधिकरणन्यायतोऽपि भेदसत्ता निराकारि ; तथापि कचित् स्वोत्प्रेक्षापरिकल्पितपरिभाषायुक्तिकलापाकुलीकृतान्त करणा भेदसत्तां सम्भावयन्तो न श्रुत्यादिसिद्धशुद्धाद्वितीयचिदात्मनि श्रद्धां बध्नन्ति । अतस्तन्मोहशान्तये समस्तभेददुर्निरूपत्वप्रकटनाय ग्रन्थमारभमाणस्तत्समाप्त्यादिफलकमीश्वरतत्त्वा नुस्मरणं मङ्गळं मनसानुष्ठितं शिष्यशिक्षार्थ प्रकटयन् प्रकरणविषयादिकं च सूचयन् स्मृतं वस्तुस्वरूपं सलक्षणप्रमाणं निर्दिशति-वेदान्ते. त्यादिना । यद्यपि स्वमते भेदमिथ्यात्वेनाद्वैतसिद्धौ श्रुतिरेव भगवती प्रमाणम्, तथापि न्यायमेव बहुमन्यमानं प्रति न्यायतस्तावत् जीवपरभेदमिथ्यात्वं साधयति---अन्त करणेति । अहमितिप्रतीयमानः अहमितिवर्तमानव्यवहारहेतुप्रतीतिगोचरो जीवपदाभिधेयो जीवः परस्मान्न भिद्यते अव्यक्तात्परो योऽसंसार्यात्मा नप्र(तत्त्र)तियोगिकभेदात्यन्ताभाववानित्यर्थः । तच्च स्वरूपेणैव स्वसंसृज्यमानाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति मतेनोक्तम्. End: अत्र विचाररहितानामनपेक्षामात्रेण वैगुण्यं न सम्भावनीयमित्यत्र दृष्टान्तमाहापीति । स्वच्छामिन्द्रनीलमणिमालां कश्चिदविचार्य काचमणिमालाभ्रान्त्या त्यजत्यपि नैतावता सा प्राज्ञैरुपेक्ष्यत इत्यर्थः ॥ वेदान्तबृन्दविपिने विततं विशुद्धमद्वैतमार्गमपवर्गपदाधिरोहम् । श्रीमद्गुरूक्तनयनुन्नसमस्तशङ्कमास्थाय यान्तु पदमुत्तममस्तदोषाः ।। Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यभगवन्नृसिंहाश्रमश्रीचरणप(रिच)रणनिरतनारायणाश्रमविरचिता भेदधिक्कारसत्क्रिया समाप्ता ॥ 816-A For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy