________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3234
A DESCRIPTIVE CATALOGUE OY
दुर्बोधं यदतीव तद्विजहति स्पष्टार्थमित्युक्तिभिः स्पष्टार्थेष्वतिविस्तृतिं विदधति व्यर्थैस्समासादिकैः । अस्थाने नुपयोगिभिश्च बहुभिर्जल्पभ्रमं तन्वते ।
श्रोतृणां म िवस्तुविप्लवकृतस्सर्वेऽपि टीकाकृतः ।। उत्सृज्य विस्तरभुदस्य विकल्पजालं फल्गुप्रकारमवधार्य च सम्यगर्थान् । अन्तः पतञ्जलिमते विवृतिर्मतोऽयमातन्व(न्य)ते बुधजनप्रतिबोधहेतुः ।।
अथ योगानुशासनम् । ___ अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गळार्थकश्च । युक्तिोगः समाधानमनुशिष्यते व्याख्यायते लक्षणभेदोपायफलयेन तदनुशासनं योगस्यानुशासनम् ; तथा (चा शास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः । तत्र शास्त्रस्य व्युत्पादकतया योगस्ससाधनः सफलोऽभिधेयः तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य च कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणस्संबन्धः, अभिधेयस्य योगस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति ----व्युत्पादितस्प योगस्य साधनानि शास्त्रेण प्रदृश्य(दर्य)न्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति । तत्र को योग इत्याह ----योगश्चित्तवृत्तिनिरोधः । End:
योगिचित्तस्य चित्तान्तरवलक्षण्यमभिधाय, तत्कर्मणामलौकिकत्वं चोपपाद्य, विपाकानुगुणवासनानामभिव्यक्तिसामर्थ्य कार्यकारणयोश्चैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य, तासामानन्त्येऽपि हेतु. त्वादिद्वारेण हानिमुपदिश्यातीतानागतादिषु धर्माणां सद्भावमुपपाद्य, विज्ञानवादं निराकृत्य, साकारवादं च प्रतिष्ठाप्य, पुरुषस्य ज्ञातृत्वमुक्ता, चित्तद्वारेण सकलव्यवहारनिष्पतिमुपपाद्य, पुरुषसिद्धप्रमाणमुपदर्य, कवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय, शास्त्रान्तरेष्वेतदेव कैवल्य स्वरूपं निर्णीतमिति कृतः कैवल्यपादश्चतुर्थः ॥
For Private and Personal Use Only