________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
End:
ननु यदीश्वरैश्वर्येणातिशयेन सहितं विदुष ऐश्वर्यं सातिशयं तर्हि लौकिकैश्ववर (केश्वरवद ) नित्यं स्यात्तथा च विदुषामावृत्तिः प्रसज्येतेत्याशङ्कय दयासिन्धो (न्धु)र्भगवान् बादरायणस्समाधत्ते -
अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ।
येsचिरादिमार्गेण ब्रह्मलोकं प्राप्तास्तेषामनावृत्तिरेव तेषां न पुनरा वृत्तिरित्यादिक्रममुक्त्यभिधानकशब्दादित्यर्थः । निर्गुणब्रह्मविदान्त्वावृत्तिशक्तैव नास्ति । यतस्सगुणविदामपि निर्गुणाश्रयणेनैवानावृत्तिः, नान्यथा । तस्माद्ब्रह्मविदां निरस्तानर्थत्रात स्वप्रभनिरतिशयानन्दात्मनावस्थितिरिति सिद्धम् । सूत्रावृत्तिश्शास्त्रसमाप्तिद्योतनाथ
यस्सर्वश्रुतिवन्दिवन्दिततनुर्मायात्मनिद्रान्तगः
सुप्तोऽस्मिन् भवपट्टणे परिमिते कल्पान्तकल्पान्तरे । यस्सर्वापरिपन्थिसाङ्गनयजप्रज्ञाप्रवाहान्तजप्रज्ञालभ्यसुखाकृतिः कृतिमिमां रामस्स गृह्णातु नः ।। अत्राध्यायचतुष्टयार्थस्सूचितः ॥
विदुषां कण्ठभूषेयं मया वृत्तिः कृता प्रभो । व्यासवाक्मणिसन्दृब्धा प्रीतये तेऽस्तु सर्वदा ||
3493
Colophon :
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमुकुन्दा श्रमश्रीचरणशिक्षितस्य श्रीमहोपाध्याय श्रीरामचन्द्रार्य प्रेमास्पदशिष्यस्य तिरुमलाचार्य तनूजस्य धर्माभट्टस्य कृतौ चतुर्था ( ध्या) यस्य चतुर्थः पादः ||
PRAKĀŚIKĀ.
No. 4690. ब्रह्मसूत्रवृत्तिः - ब्रह्मतत्त्वप्रकाशिका. BRAHMASUTRAVRITIH: BRAHMATATTVA
Pages, 284.
Lines, 20 on a page.
Begins on fol. 4a of the Ms. described under No. 1648.
For Private and Personal Use Only