________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3489
तं सर्ववेदसमशेषबुधाधिराज श्रीरङ्गराजमखिनं गुरुमानतोऽस्मि ।। वेदविभागविधात्रे विमलाय ब्रह्मणे नमो विश्वदृशे ।
सकलधृतिहेतुपावनसूत्रसृजे सत्यवत्यभिव्यक्तिमते ॥ यन्नानाभाष्यशाखोदितफलविततिः प्रौढनानारसाढ्या यमिन्मूले निरूढं फलमधिकरसं स्वाहनारुह्य लभ्यम् । यस्य प्रेक्षैव देहद्वयतदनुगतप्रत्य(ग)र्थी विवेक्त्री सूत्रात्मा पारिजातः सकलमभिमतं मह्यमर्थ स दद्यात् ।। नानाभाष्यामृता सा सगुणफलगतिर्वैधविद्याविशेषैः तद्देशावातपि(प्ति)रम्या सरिदिव सकला यत्र यात्यंशभूयम् । तस्मादानन्दसिन्धावतिमहति फले भाविविश्रान्तिमुद्रा शास्त्रस्योद्घाटिता यैः प्रणम हृदि तान् नित्यमाचार्यपादान् ॥
अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधा सरिदि(व)महीभागान् संप्राप्य शौरिपदोद्गता । जगति भगवत्पादश्रीमन्मुखाम्बुजनिर्गता
जननहरिणी सूक्तिब्रह्माद्वयैकपरायणा ।। एनां पुराणपदवीमनुसृत्य सत्यामत्यादरेण महितैरनुपाल्यमानाम् । शारीरकाभरणभावजुषां नयानां रक्षाकरं(रों) मणिमनाविलमुल्लिखामि ।।
अमूं शारीरकन्यायकलापपरिकर्मिताम् ।
कुदृष्टिदोषहरणां कण्ठे कुरुत सन्मणिम् ।। अथातो ब्रह्मजिज्ञासाअत्र शास्त्रारम्भोपयोगिब्रह्मात्मैक्यलक्षणविषयप्रयोजनविरोधिनः कर्त.
For Private and Personal Use Only