SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3483 THE SANSKRIT MANUSCRIPTS. वन्दे चर्मकपालिकोपकरणैर्वैराग्यसौख्यात्परं नास्तीति प्रदिशन्तमन्तविधुरं श्रीकाळिकेशं शिवम् ।। यत्कृपालवमात्रेण मूको भवति पण्डितः । वेदशास्त्रशरीरां तां वाणी वीणाकरां भजे ॥ कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्यश्रीगौरीनायकाभित्प्रकटनशिवरामार्थलब्धात्मबोधैः । श्रीमद्गोपालसद्भिः प्रकटितपरमाद्वैतभासा स्मितास्य श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोऽहं यथाळिः ॥ मोक्षपुर्या श्रीकाञ्चयां कामाक्ष्या दत्तं पायसं देवैरपि स्तुतं प्राज्य सम्पूर्ण प्रकृष्टाज्ययुक्तं वा यद्भोज्यमन्नं तेनाधिपूज्याः श्रीशिवरामयो. गिनः । किञ्च शिवश्चासौ रामश्चेति स्वनाम्ना श्रीगौरीनायकयोरभेदं प्रकटयति । तेभ्यो गुरुभ्यो लब्ध आत्मबोधो यैः श्रीमद्गोपालसरखतीभिरित्यर्थः । श्रीशङ्करं भाष्यकृतं प्रणम्य व्यासं हरिं सूत्रकृतं च वच्मि । श्रीभाप्यतीर्थे परहंसतुष्ट्यै वाग्जालबन्धच्छिदमभ्युपायम् ।। अत्र भाष्ये कठिनवाग्रूपेण जालेन यो बन्धः जालबन्धः । पक्षिणामिव परमहंसानां क्लेशसन्नाशकमभीष्टमुपायं वच्मीत्यर्थः ।। विस्तृतग्रन्थवीक्षायामलसं यस्य मानसम् । व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा ।। श्रीमच्छारीरकं भाष्यं प्राप्य वाक् शुद्धिमानुयात् । इति श्रमो मे सफलो गाङ्गं रथ्योदकं यथा ॥ यदज्ञानसमुद्भूतमिन्द्रजालमिदं जगत् । सत्यज्ञानसुखानन्तं तदहं ब्रह्म निर्भयम् ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy