________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
भूतार्थप्रतिपादने प्रयोजनाभावात् सापेक्षत्वप्रसङ्गाच्च विधिशेषतयैव वेदस्य प्रामाण्यं पूर्व प्रत्यक्षेपि तत्रापि विधिशेषत्वशङ्का प्रतिक्षिप्यत इति पौनरुक्त्यमाशङ्कय वृत्तानुद्रवणपुरस्सरं प्रमेयभेदं दर्शयति — लोक इत्यादिना । सिद्धे सङ्गत्यग्रहणादेवाबोधकत्वं नेत्याह — भूत इति ।
End:
3475
तर्हि हिरण्यदा अमृतत्वं भजन्त इति श्रुतिबलात् कर्मणैव मोक्ष इति शङ्कां निरस्यति – फलेति । ज्ञानोत्तरकालमपि प्रमातृत्वं किं न स्यादित्याशङ्कयान्तःकरणैक्याध्याससाधनं तस्मिन्नसत्येव भवतीति, नान्यथेत्यभिसन्धायाह —तदेवेति । ज्ञाने सत्यपि प्रमातृत्वादिकं दृष्टमित्याशङ्कय तात्पर्यमाह - अद्वितीयेति । सकलशास्त्र व्यवस्थासिद्ध्यर्थं सोपाधिकं निरुपाधिकं चानूदितमिति द्रष्टव्यम् ॥ तत्त्वदीपनमालेयं भवपादसमर्पिता ।
विदुषां प्रीणनायास्तु तर्कमौक्तिकभास्वरा ||
Colophon :
इति श्रीमत्परमहंसपरिव्राजकाचार्याखण्डानन्दानुभूति पूज्यपादशिष्येणाखण्डानन्दमुनिना विरचिते विवरणतत्त्वदीपने समन्वयसूत्रं समाप्तम् ||
No. 4671. ब्रह्मसूत्रभाष्यव्याख्यानम् - ब्रह्मविद्याभरणम्.
BRAHMASÜTRABHĀSYAVYĀKHYĀNAM :
BRAHMAVIDYABHARANAM.
For Private and Personal Use Only
Substauce, palm-leaf. Size, 173 x 1 inches. Pages, 34. Lines, 7 on a page. Character, Telugu. Condition, slightly injured. Appearance, not very old.
From the end of the 2nd Pada to the beginning of the 3rd Pada of tho first Adhyāya.
A gloss on Sankaracarya's commentary on the Brahmasutra: by Advaitananda, a disciple of Ramanandatīrtha, who was himself a disciple of Bhumānanda.