________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3232
A DESCRIPTIVE CATALOGUE OF
चक्रुः । तत्र भाष्यतट्टीकायां चातिगम्भीरत्वात् न सहसा सूत्राथमीषयुत्पन्नैर्मुमुक्षुभिरन्या सूत्रार्थजिज्ञासुभिर्लब्धुं शक्यते ; तथा च तदनु ग्रहाय तानेवाश्रित्य सूत्रार्थबोधिनी वृत्तिरारभ्यते । तत्रेदमाद्यं सूत्रमथेति____ अथ योगानुशासनम् । अथशब्द आरम्भार्थः, श्रुतमात्रेण मङ्गलप्रयोजनकश्च । शस्यते अनेनेति शासनं शास्त्रं योगानामनुशासनं योगानुशासनम् ; तथाच योगशास्त्रमारभ्यत इत्यर्थः । तत्र संप्रज्ञातासंप्रज्ञातभेदेन वक्ष्यमाणेन द्विविधयोगस्य साधारणं लक्षणमाह - योग इति -- योगश्चित्तवृत्तिनिरोधः । End:
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम् । स्वल्पं म्वरूपप्र. तिष्ठा वा चि(ति) शक्तिरित ॥ Colophon:
इति पातञ्जले साङ्ख्यप्रवचने योगशास्त्रे कैवल्यपादः चतुर्थः समा
कृतकर्तव्यतमा(नां)पुरुषार्थशून्यानां गुणानां लिङ्गशरीराद्यात्मकानां यः प्रसवः स्वकारणे त्यन्तविलापः अनागतावस्थं शून्यत्वमिति यावत् । सा पद्धेः कैवल्यम् । एतदेव प्रधानस्याज्ञानिपुरुषं प्रति कैवल्यमुच्यते । तेन सह पुरुषेण सहासद्योगात् । एवं चितिशक्तिः खरूपप्रतिष्ठा वा बुद्धिसत्त्वो(द)यादिधीस्वरूपशून्यता वा कैवल्यम् ; स्वरूपतोऽस्वच्छन्दस्यापि स्फाटेकस्य जपाकुसुमाद्यपाये स्वरूपप्रतिष्ठावत् । तथाच निरुपाधिकत या सार्वदिकी स्थितिरेव कैवल्यम् ; साध्यता चोपाधिनिवृतेरेवेति भावः ।।
तीर्थराजे प्रयोगेऽस्मिन् योगसूत्रार्थवर्णनम् । नारायणो भिक्षुवर्यो व्यासे(ते)ने हरितुष्टये ।।
For Private and Personal Use Only