________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3470
A DESCRIPTIVE CATALOGUE OF
Even the first Pāda of the first Adhyāya is incomplete.
A commentary on the Brahmasūtrabhāsya of Sankarācārya : hy Padmapādācārya. Beginning:
अनाद्यानन्दकूटस्थज्ञानानन्तसदात्मने । अभूतद्वैतजालाय साक्षिणे ब्रह्मणे नमः ।। नम(:)श्रुतिशिर पद्मषण्डमार्ताण्डमूर्तये ।
बादरायणसंजाय मुनये शमवेश्मने ॥ नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनु(पु)मर्धविग्रहम् । अनुग्रमुन्मृदितकाळलाञ्छनं विनाविनायकमपूर्वशङ्करम् ॥
यद्वक्त्रमानससर प्रतिलब्धजन्मभाष्यारविन्दमकरन्दरसं पिबन्ति । प्रत्याशमुन्मुखविनीतविनेयभृङ्गास्तान् भाष्यवित्तकगुरून् प्रणमामि मूर्धा ।। (पदा)दित्तभारेण गरिमाणं बिभर्ति यत् ।
भाष्यं प्रसन्नगम्भीरं तद्व्याख्यां श्रद्धयारभे ॥ युष्मदस्मदित्यायहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहार इत्यन्तं भाष्यम् । अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त इत्यनेन पर्यवस्यच्छास्त्रस्य विषयः प्रयोजनं चार्थात्प्रथमसूत्रेण सूत्रिते इति प्रतिपादयति । एतच्च तस्मात् ब्रह्म जिज्ञासित. व्यमित्यादिभाष्ये स्पष्टतरं दर्शयिष्यामः । End:
नन्वेतत्सूत्रं श्रवणविधिमूलमिति कथं गम्यत इति तत्राह-श्रुतिसूत्रयोरिति । " तद्विजिज्ञासस्व, श्रोतव्यः” इत्यादिश्रुतौ सूत्रे विचारकर्तव्यतापरत्वस्य()विशेषादित्यर्थः । श्रवणस्याङ्गित्वं मननादेरङ्गत्वं चो
For Private and Personal Use Only