________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3488
A DESCRIPTIVE CATALOGUE OF ग्रामे वसन् पितृगुरोरभिधां दधानः । ज्ञानोत्तमस्सकलदर्शनपारदृश्वा
नैष्कर्म्यसिद्धिविवृतिं कुरुते यथावत् ।। व्याचिख्यासितायाः श्लोकसन्दर्भरूपाया नैष्कर्म्यसिद्धेरधिकारिप्रयोजनतत्साधनसम्बन्धविषयाणामभावादनारम्भमाशङ्कय स्वयमेव सम्बन्धोक्तिं कुर्वन् आचार्यः प्रकरणारम्भसिद्ध्यर्थ क्रमेण तानुपपादयति--आब्रह्म - स्तम्बपर्यन्तौरत्यादिना प्रकरणमिदमारभ्यत इत्यन्तेन ग्रन्थेन । तत्र तावदधिकारिणमुपपादयति-तन्निवृत्त्या प्रवृत्तिः स्वरसत एवेत्यन्तेन । आब्रह्म च स्तम्बपर्यन्ताश्चेत्याब्रह्मस्तम्बपर्यन्तास्तैश्चतुर्मुखप्रभृतिभिः स्तम्बावसानैः; प्राणिभिरिति यावत् । सर्वप्रकारस्याध्यात्मिकादिभेदभिन्नस्य । स्वरसत एव स्वभावत एव ; शास्त्राधेयसंस्कारमन्तरेणेति यावत् । End:
नैष्कर्म्यसिद्धाख्यानक्षमतात्पर्यपरिज्ञाने किं कारणमित्याकाायां सम्बन्धोक्तिरेवेत्याह
' सम्बन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता ।
नैष्कर्म्यसिद्धर्ज्ञात्वेमां व्याख्याता स भवेद्भवम् ।। इति व(प)दकशतमकार्षीत् ॥ व(प)दकशतम(ह)तको(कु)मारिलसौगतगुर्वक्षपादकणभक्ष यमः । वल(यमनियम)निलयधिषणो जयति श्रीसत्त्वबोधाचार्यः ॥ वस्तु प्रख्या(ति)विख्या(घा)तिवादितिमिरं नैष्कर्म्यसिद्धेस्स्फुटं व्याख्याचन्द्रिकया विधूय सुधियस्सदृष्टिमुन्मीलयन् । अन्तस्संहृतशान्तिवेदनसुधो विद्योतते सर्वदा
सर्वज्ञाश्रमचन्द्रमास्त्रिजगतीसर्वज्ञचूडामणिः ॥ Colophon:
इति महोपाध्यायज्ञानोत्तममिश्रविरचितायां नैष्कर्म्यसिद्धिचन्द्रिकायां चतुर्थोऽध्यायः ॥
For Private and Personal Use Only